________________
२२५
सप्तमो नर्तनाध्यायः सूचीपादो नतं पार्श्व वक्षस्थः खटकामुखः ॥ ६९० ॥ वामोऽलपल्लवो गण्डक्षेत्रे चेद्गण्डसूचि तत् । क्षेत्रेऽत्र केचिदिच्छन्ति सूचीपादं परे पुनः ॥ ६९१ ॥ सूचीमुखं नृत्तहस्तमन्येऽभिनयहस्तकम् । करणेनाभिनेतव्या कपोलालंकृतिस्तदा ॥ ६९२ ॥
इति गण्डसूची(वि) (६९) लतारेचितको हस्तौ दृश्चिकाघ्रिः समुन्नतम् । उरो यत्र तदन्वर्थाभिधानं गरुडप्लुतम् ॥ ६९३ ॥
इति गहडप्लुतम् (७०) दण्डपादाख्यया चार्या यद्वातिक्रान्तया द्रुतम् । उत्क्षिप्य पात्यमानेऽङ्घ्रावग्रे चेत्तालिकां करौ ॥ ६९४ ॥
(सु०) गण्डसूचि लक्षयति-सूचीति । यत्र सूच्याख्यश्चरणः, पार्श्व नतम् , वक्षसि दक्षिणहस्तः खटकामुखः, वामश्च गण्डक्षेत्रे अलपल्लवो भवति ; तदा गण्डसूच्याख्यं करणं भवति । अत्र केचित् गण्डक्षेत्रे सूचीपादमिच्छन्ति । परे पुनः सूचीमुखं नृत्तहस्तमिच्छन्ति । अन्ये अभिनयहस्तकमिच्छन्ति । तच कपोलालंकृतौ प्रयोज्यम् ॥ -६९०-६९२ ॥
___ इति गण्डसूचि (६९) (सु०) गरुडप्लुतं लक्षयति-लतारेचितकाविति । यत्र हस्तौ लतारेचितकौ ; पादौ च वृश्चिकः ; उर: समुन्नतन् ; तत्र अन्वर्थाभिधानं गरुडप्लुतं भवति ॥ ६९३ ॥
इति गरुडप्लुतम् (७०) (सु०) तलसंस्फोटितं लक्षयति-दण्डपादेति । यत्र दण्डपाढाख्यया चार्या वा, अतिक्रान्ताख्यया चार्या वा उपलक्षिते, मघौ तूर्णमुत्क्षिप्य
-
29
Scanned by Gitarth Ganga Research Institute