________________
सप्तमो नर्तनाध्यायः
यत्राङ्गुलिस्तिलकयेल्ललाटं तन्निशुम्भितम् ।
यद्वा वृविकहस्तः स्यादभिनेयो महेश्वरः || ६८३ || इति निशुम्भतम् (६३)
पृष्ठतो भ्रामितं पादं सर्वतोमण्डलप्लुतः । भ्रामयेच्चेच्छिरः क्षेत्रे विद्युद्भ्रान्तं तदोच्यते ।। ६८४ ॥ प्रयोगमस्य च प्राहुरुद्धतानां परिक्रमे । इति विद्युद्भ्रान्तम् (६४)
कृत्वा चारीमतिक्रान्तामङ्घ्रिमग्रे प्रसारयेत् ।। ६८५ ॥ यत्र हस्तौ प्रयोगार्हावतिक्रान्तमदो विदुः ।
इत्यतिक्रान्तम् (६५)
२२३
पाणिभागे कुञ्चितो भवति । उरःस्थलं समुन्नतं च भवति, खटका मुखहस्तस्य मध्यमाङ्गुलिः यत्र ललाटे तिलकं कुर्यात् ; तत् निशुम्भिताख्यं करणं भवति । यद्वा वृश्चिकहस्तव्यापारः स्यात् । तच्च महेश्वरस्य अभिनये प्रयोज्यम् ॥ ॥ ६८२, ६८३ ॥
इति निशुम्भितम् (६३)
(सु० ) विद्युद्भ्रान्तं लक्षयति - पृष्ठत इति । यत्र पृष्ठतः पार्श्वतो मण्डलगत्या भ्रामयित्वा पादः शिरः क्षेत्रे भ्राम्यते, तत्र विद्युद्भ्रान्ताख्यं करणं भवति । तच्च उद्धतपरिक्रमे प्रयोज्यम् ॥ ६८४, ६८४- ॥
इति विद्युद्भ्रान्तम् (६४)
(सु० ) अतिक्रान्तं लक्षयति - कृत्वेति । यत्र अतिक्रान्तां चारी कृत्वा, अनन्तरं चरणमग्रे प्रसारयेत् । हस्तौ च यत्र प्रयोगानुगुणं भवेताम् । तत्र अतिक्रान्ताख्यं करणं भवति । तच्च अतिक्रान्तमदे प्रयोज्यम् ॥ - ६८९, ६८५-॥
इत्यतिक्रान्तम् (६५)
Scanned by Gitarth Ganga Research Institute