SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः सूच्यज्रिणा द्वितीयाङ्ग्रेः पाणितः स्वस्तिकं भवेत् ॥६७८।। व्यावृत्तिपरिवृत्तिभ्यां वलयित्वैकपार्वतः । त्रिकं बद्धाभिधां चारी कुर्याद्धस्तौ तु रेचितौ ॥ ६७९ ॥ यत्र तद्विनिवृत्तं स्यात्पूर्वोक्तविनियोगभाक् । इति विनिवृत्तम् (६१) पार्थक्रान्ता भवेच्चारी करौ पादानुगौ यदा ।। ६८० ॥ पार्थक्रान्तं तदा यद्वाभिनेयवशगौ करौ । तद्योज्यं भीमसेनादे रौद्रमाये परिक्रमे ।। ६८१ ॥ इति पार्श्वकान्तम् (६२) पाष्णिदेशे द्वितीया ः कुश्चितश्चरणो भवेत् । समुन्नतमुरः पाणेः खटकाख्यस्य मध्यमा ।। ६८२ ॥ (सु०) विनिवृत्तं लक्षयति-सूच्यविणेति । यत्र सूचीरूपेण चरणेन सह द्वितीयचरणस्य पार्श्वप्रदेशेन च स्वस्तिकं कुर्यात् । ततो व्यावर्तनेन परिवर्तनेन च वलनं विधाय, एकस्मिन् पार्वे त्रिकं बद्धाख्यां चारी कुर्यात् । हस्तौ च यत्र रेचितौ भवतः ; तत्र विनिवृत्ताख्यं करणं भवति । तच पूर्वोक्तार्थे प्रयोज्यम् || -६७८-६७९-॥ इति विनितम् (६१) (सु०) पार्श्वक्रान्तं लक्षयति-पार्श्वक्रान्तेति । पार्श्वक्रान्ताख्या चारी कृत्वा, हस्तौ पादानुगौ वा अभिनेयवशगौ वा भवतः, तत्र पार्श्वक्रान्ताख्यं करणं भवति । तच्च भीमसेनादीनां रौद्रप्राये परिक्रमे प्रयोज्यम् ॥-६८०, ६८१॥ ___ इति पावक्रान्तम् (६२) (सु०) निशुम्भितं लक्षयति-पाणिभाग इति । यत्र द्वितीयचरणः Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy