________________
सप्तमो नर्तनाध्यायः
२२१ यत्र तत्कुश्चितं पादे सव्येऽग्रतलसंचरे । तेन देवानभिनयेल्सदानन्दनिर्भरान् ॥ ६७५ ॥
इति कुश्चितम् (५८) ऊर्ध्वजानोः परं चारी डोलापादा यदा भवेत् । डोलौ हस्तौ तदा प्रोक्तं डोलापादं विदांवरैः ॥ ६७६ ॥
इति डोलापादम् (५९) पादमाक्षिप्तया चार्याक्षिप्याक्षिप्य करावपि । व्यावृत्तिपरिवृत्तिभ्यां कृत्वा भ्रमरिकां करौ ।। ६७७ ॥ रेचितौ चेद्विवृत्तं स्यात्तच्चोद्धतपरिक्रमे ।
इति विवृत्तम् (६०)
अलपमतां धत्ते, सत्यपादश्च अग्रतलसंचारो भवति । तत्र कुञ्चिताख्यं करणं भवति । तच्च आनन्दनिर्भरेण देवाभिनये प्रयोज्यम् ॥ -६७४, ६७५ ॥
. इति कुच्चितम् (५८) ___(सु०) डोलापादं लक्षयति-ऊर्ध्वजानोरिति । यत्र ऊर्ध्वजानुसंज्ञिको चारी कृत्वा, अनन्तरं डोलापादाख्या चारी क्रियते ; हस्तौ च डोलारूपौ क्रियेते; तदा डोलापादाख्यं करणं भवति ॥ ६७६ ॥
इति डोलापादम् (५९) (सु०) विवृत्तं लक्षयति-पादमिति । यत्र आक्षिप्ताख्यया चार्या, उपलक्षितपादमाक्षिप्य, हस्तावपि व्यावृत्तिपरिवृत्तिभ्यां भ्रमरिकाकारौ कृत्वा यदा रेचितौ भवतः ; तदा विवृत्ताख्यं करणं भवति । तच्च उद्धतपरिक्रमे प्रयोज्यम् ॥ ६७७, ६७७- ॥
इति विवृत्तम् (६०)
Scanned by Gitarth Ganga Research Institute