________________
सप्तमो नर्तनाध्यायः एक उद्वेष्टितेनाधो विप्रकीर्णः करोऽपरः ॥ ६५२ ॥ ऊच तादृक्परावृत्त्या वक्ष.क्षेत्रगतस्ततः। उत्तानो रेचितश्चैकोऽपरोऽधोमुखरेचितः ॥ ६५३ ॥ आलीढं स्थानकं यत्र तद्वयंसितमुदाहृतम् । प्रयोज्यमाञ्जनेयादिमहाकपिपरिक्रमे ॥ ६५४ ।।
इति व्यंसितम् (४३) चार्यातिक्रान्तया पादं पात्यमानं तु कुश्चयेत् । व्यावर्तितेन तत्कालं करं निष्क्रामयेत्ततः ।। ६५५ ॥ आक्षिप्य परिवर्तेन तं कुर्यात्खटकामुखम् । वक्षस्येवं द्वितीयाङ्गं यत्र तत्कान्तमिष्यते ॥ ६५६ ॥ प्रयोगमाहुराचार्यास्तस्योद्धतपरिक्रमे ।
इति क्रान्तम् (४४) वामपादं द्रुतापसारितं कृत्वा, तस्य वामस्य पार्वे दक्षिणं चरणं न्यसेत् । ततः कटी रेचिता भवति । भ्रमर्याख्यां चारी कुर्वन् , करौ च व्यावृत्तपरिवर्तितौ विधाय, अन्ते चतुरश्रे कृते, तदा कटीभ्रान्ताख्यं करणं भवति । तब तालान्तरालेषु, यतीनां परिपूरणे, गति परिक्रमे च प्रयोज्यम् ॥-६४९-६५१-।।
इति कटीभ्रान्तम् (४२) (सु०) व्यंसितं लक्षयति-एक इति । यत्र एककर उद्वेष्टितेन अधो विप्रकीर्णो भवति । अपरस्तु कर ऊर्ध्वमुद्वेष्टितेन परावृत्त्या उर:क्षेत्रं प्राप्नोति । तत: एक: कर उत्तानरेचित:, अपर अधोमुखरेचित: । तत आलीढम्थानक च भवति, तत् व्यंसिताख्यं करणं भवति । तच्च आञ्जनेयादिमहाकपिपरिक्रमे प्रयोज्यम् ॥ -४५२-४५४ ॥
___इति व्यं सितम् (४३) (सु०) आतिक्रान्तं लक्षयति-चार्येति । अतिक्रान्तसंज्ञया चार्या
Scanned by Gitarth Ganga Research Institute