________________
२१६
संगीतरनाकरः हस्तपादकटिग्रीवं रेचितं स्थानकं पुनः ॥ ६५७ ।। वैशाखं यत्र तज्ज्ञेयं विज्ञैवैशाखरेचितम् ।
इति वैशाखरेचितम् (४५) फरिहस्तौ करौ पादौ पृष्ठे वृश्चिकपुच्छवत् ॥ ६५८ ॥ दूरसंनतपृष्ठं च यत्र तश्चिकं विदुः। एतदैरावणादीनां व्योमयाने नियुज्यते ॥ ६५९ ॥
इति वृश्चिकम् (४६) वृश्चिकं चरणं कृत्वा बाहुशीर्षे यदा क्रमात् ।
अलपद्मौ निकुटयेते तदा वृश्चिककुट्टितम् ॥ ६६० ॥ पात्यमानं पादं कुञ्चितं कुर्यात् । तस्मिन्नेव समये व्यावर्तितेन कर निकामयेत् । ततः आक्षेपेण परिवर्तनेन च तं करं खटका मुखं कुर्यात् ; एवं द्वितीयाङ्गमपि यत्र क्रियते, तद् अतिक्रान्ताख्यं करणं भवति । अस्य प्रयोगं तु आचार्या उद्धतपरिक्रमे प्राहुः ॥ ४५५, ४५६-॥
इति कान्तम् (४४) (मु०) वैशाखरेचितं लक्षयति-हस्तपादेति । हस्तपादादिकं यत्र रेचितं वैशाखं स्थानकं चेत् ; तदा वैशाखरेचिताख्यं करणं भवति ॥ ॥-४५७, ४५७- ॥
इति वैशाखरेचितम् (४५) (सु०) दृश्चिकं लक्षयति-करिहस्ताविति । करिहस्ताख्यौ हरतो, पादौ च पृष्ठे वृश्चिकपुच्छवदाकारं गच्छतः, पृष्ठं च दूरसनतं यत्र, तत् वृश्चिकाख्यं करणं भवति । एतद् ऐरावणादीनां व्योमयाने प्रयोज्यम् ॥ -४५८, ४५९ ॥
इति वृश्चिकम् (४६) (सु०) वृश्चिककुट्टितं लक्षयति-वृश्चिकमिति । वृश्चिकाख्यं करणं
Scanned by Gitarth Ganga Research Institute