________________
२१३
सप्तमो नर्तनाध्यायः स्यात्तालमञ्जने तच्च तयागमतिसारणे ।
इति च्छिन्नम् (३७) भुजङ्गत्रासिता चारी ततो यत्र च रेचितौ ॥ ६४४ ॥ हस्तौ स्तो वामपाधं तद्भुजङ्गत्रस्तरेचितम् ।
इति भुजमवस्तरेचितम् (३८) चारी चेदक्षिणा ः स्यात्पूर्वोक्ता दक्षिणः करः ॥ ६४५ ॥ रेचितोऽन्यो लताहस्तो भुजज्ञाश्चितकं तदा ।
इति भुजंगाचितम् (३९) चारी चेदण्डपादा स्यादण्डपक्षौ च हस्तकौ ॥ ६४६ ॥
करौ क्रमादलपद्मौ विधाय, कटी च्छिन्नां कृत्वा, वैशाखं स्थानं च करोति ; तच्छिन्नाख्यं करणं भवति । तच्च तालभञ्जने, तथाङ्गप्रतिसारणे च प्रयोज्यम् ॥ ॥ ६४३, ६४३- ॥
इति छिन्नम् (३५) (सु०) भुजङ्गत्रस्तरेवितं लक्षयति-भुनड्रेति । यत्र भुजङ्गत्रासिताख्यां चारी विधाय रेचितौ भवतः ; हस्तौ च वामपाश्र्वे क्रियेते चेत, तदा भुजङ्गत्रस्तरेचिताख्यं करणं भवति ॥ -६४४, ६४४-॥
___ इति भुजयस्तरेचितम् (३०) (मु०) भुजङ्गाञ्चितं लक्षयति-चारीति । यत्र दक्षिगायौ पूर्वोक्ता भुजङ्गात्रासिता चारी । दक्षिणहस्तो रेचितः । अन्यो वाम: करः लतारूप: क्रियते चेत् ; तदा भुजङ्गाञ्चितं करणम् ॥ -६४५, ६४५-॥
इति भुजङ्गाधितम् (३९) (सु०) दण्डरेचितं लक्षयति-चारी चेति । यत्र प्रथमं दण्डपादाख्या
Scanned by Gitarth Ganga Research Institute