________________
-२१२
संगीतरत्नाकर:
विधाय भ्रमरीं चारों ततो नूपुरपादिकाम् ।। ६३९ ॥ पादेनैकेन तदिकं हस्तं रेचितमाचरेत् ।
द्वितीयं तु लताहस्तं यत्र तन्नूपुरं विदुः ।। ६४० ।। इति नूपुरम् (३५)
पादमाक्षिप्तचारीकं तदैवोद्वेष्टितं करम् ।
त्रिकं च वलितं कृत्वा पादस्वस्तिकमाचरेत् || ६४१ ॥ ततस्तद्वद् द्वितीयाङ्गं युगपचोल्वगौ करौ ।
यत्र तद् भ्रमरं योज्यं तच्चोद्धतपरिक्रमे ।। ६४२ ।। इति नरम् (३६)
अलपद्मौ कटीपार्श्वक्षेत्रे यत्र क्रमात्करौ । कटीछिन्ना च वैशाखं स्थानं तच्छिन्नमुच्यते ।। ६४३ ।।
(मु० ) नूपुरं लक्षयति - विधायेति । भ्रनर्याख्यां चारों कृत्वा, ततो नूपुरपादिकां चारों कुर्यात् । एकेन पादेन तद्दिक्कम् ; तद्दिगवस्थितं कृत्वा, एकेन करेण रेचितं कुर्यात् । द्वितीयं हस्तं तु लतारूपं कुर्यात् । तदा नूपुराख्यं करणं भवति ॥ -६३९, ६४० ॥
इति नूपुरम् (३५)
(सु० ) भ्रमरं लक्षयति - पादमिति । आक्षिप्ताख्या चारी यस्मिन्, तथाविधं पादं कृत्वा, तस्मिन्नेव समये हस्तमुद्वेष्टितं त्रिकं च वलितं विधाय पादस्वस्तिकाचरेत् । अनन्तरं तदेव द्वितीयमङ्गं विधाय, सत्कारमेव उल्बणौ करौ यत्र क्रियेते, तत्र भ्रमराख्यं करणं भवति । तच्च मदोद्धतपरिक्रमे प्रयोज्यम् ॥ ६४१, ६४२ ॥
इति नरम् ( ३६ )
(सु० ) च्छिन्नं लक्षपति - अलपद्माविति । कटीपाश्वप्रदेशे च उभौ
Scanned by Gitarth Ganga Research Institute