________________
सप्तमो नर्तनाध्यायः
२११ क्रमादङ्गद्वयेऽप्येवं ललिते वलितं भवेत् ।
___ इति वलितम् (३२) यत्रोर्बजानुश्वारी स्याल्लताहस्तौ करौ कृतौ ॥ ६३६ ॥ तयोरेकं ततो न्यस्येदुपयूलस्थनानुनः। पुनरङ्गान्तरेणैव दण्डपक्षं तदुच्यते ।। ६३७॥
___ इति तण्डपक्षम् (३३) पराङ्मुखौ नाभितटे हस्तौ चेत्खटकामुखौ । सूचीपादोऽधिणान्येन युक्त्वापक्रान्तयान्वितः॥ ६३८ ॥ अघिरन्यस्तथैव स्यात्तदा पादापविद्धकम् ।
इति पादापविद्धकम् (३४) मुखतामेत्य अपसर्पति सति, सूचीपादोऽप्यपसृतो भवति । तत: भ्रमर्याख्या चारी च क्रियते । एवं कमात् अङ्गद्वयेऽप्येवं भवति चेत् , तदा वलिताख्यं करणं भवति । तच्च ललिते प्रयोज्यम् ॥ ६३५, ६३५- ॥
___ इति वलितम् (३२) (सु०) दण्डपक्षं लक्षयति-यत्रेति । यत्र प्रथमम् ऊर्ध्वजान्वाख्या चारी, लतारूपौ करौ। तयोः करयोर्मध्ये एकं करमूर्ध्वरूपस्य जानुन उपरि स्थापयेत् । पुनः अङ्गान्तरेऽप्येवं क्रियते चेत् ; तदा दण्डपक्षाख्यं करणं भवति ॥ -६३६, ६३७ ॥
इति दण्डपक्षम् (३३) (सु०) पादापविद्धं लक्षयति-पराङ्मुखाविति । खटकामुखौ करौ नाभितटप्रदेशे पराङ्मुखौ क्रियेते। सूचीसंज्ञश्च पादः अन्येन अघिणा संयोगं प्राप्य, अपक्रान्तया चार्या अन्धितो भवति । अय अधिः, एवमेव कृतश्चेत्, तदा पादापविद्धाख्यं करणं भवति ॥ ६३८, ६३८-॥
इति पादापविद्धकम् (३४)
Scanned by Gitarth Ganga Research Institute