________________
सप्तमो नर्तनाध्यायः पाणिराक्षिप्यते चाङ्घियत्राङ्गं चान्यदीदृशम् ॥ ६१७ ॥ विक्षिप्ताक्षिप्तकं तत्स्याद्तागतनिरूपणे । इमं तु नाट्यतत्त्वज्ञा विनियोगं न पन्वते ॥ ६१८ ॥ वाक्यार्थाभिनयस्तत्र यत्राभिनयहस्तकाः। प्राधान्येन विधीयन्ते नृत्तमात्रपरं त्विदम् ॥ ६१९ ॥ अतोऽन्तरालसंधाने गतीनां च परिक्रमे । । तथा युद्धनियुद्धस्थचारीस्थानकसंक्रमे ॥ ६२० ॥ कार्ये तालानुसंधाने योज्यं करणमीदृशम् ।
इति विक्षिप्ताकम् (२३) वृश्चिकं करणं कृत्वा यत्रारालं शिरस्थले ॥ ६२१ ॥ तद्दिकं करमाधाय नासाक्षेत्रार्जवेन तु । कृतो वक्षस्यरालोऽन्यस्तद्वदन्ति निकुश्चितम् ॥ ६२२ ॥ एतदुत्पतनौत्सुक्यवितर्कादौ प्रयुज्यते । मन्ये पताकसूच्यास्यावस्मिन्नासाग्रगौ विदुः ॥ ६२३ ॥
इति निश्चितम् (२४) सति, अघ्रिः बहिविक्षिप्यते । अपरस्तु हस्त: चतुरश्र एव । पूर्वपाणिः परिवृत्त्या आक्षिप्यते, अन्यदप्यङ्गमीदृशं विक्षेपे विक्षिप्तम् , आक्षेपे चाक्षिप्तम् ; तदा विभिप्ताक्षिप्तं करणं भवति । तच्च गतागतनिरूपणे कार्यम् । नाश्यतत्त्वज्ञाः इमं विनियोगं नानुमन्यन्ते । यत्र वाक्यार्थाभिनयः तत्र अभिनयहस्तका: प्राधान्येन नृत्तमात्रत्वेन विधीयन्ते । अत ईदृशं करणम् , अन्तरालसंधाने ; अभिनयान्तरसंबन्धे गतीनां परिक्रमे, तथा युद्धादीनामवस्थितचारीस्थानकसंचारे, तालानुसंधाने च प्रयोज्यमिति ॥ -६१६-६२०-॥
इति विक्षिप्ताक्षिप्तकम् (२३) । (सु०) निकुञ्चितं लक्षयति-वृश्चिकमिति । यत्र वृश्चिकाख्यं करणं कृत्वा, शिरसि अरालं करं तदेशे कृत्वा, नासाक्षेत्राजवेन वक्षसि अन्य अरालः
Scanned by Gitarth Ganga Research Institute