________________
२०६
संगीतरत्नाकरः भुजङ्गात्रासितां चारी कृत्वोत्क्षिप्य च कुश्चितम् । अघिमूरुकटीजानुयश्रं यत्र विवर्तयेत् ॥ ६१३ ॥ व्यावृत्तिपरिवृत्तिभ्यामेको डोलाकरोऽपरः । खटकाख्यस्तदन्वर्थ भुजङ्गगत्रासितं मतम् ।। ६१४ ॥
इति भुजंगत्रासितम् (२१) चार्यलाता नितम्बश्च करोऽय चतुरश्रकः । एतदक्षिणतो वाम ऊर्वजानुस्तथैव चेत् ॥ ६१५ ॥ अनान्तरं तदालातं नृत्ते सललिते मतम् ।
इत्यलातम् (२२) हस्ते ब्यावर्तमाने तु सोऽधिविक्षिप्यते बहिः ॥ ६१६ ॥ चतुरश्रः करः पाणिः पूर्वोऽथ परिवर्तने ।
(सु०) भुजङ्गत्रासितं लक्षपति-भुजङ्गत्रासितामिति । यत्र भुजङ्गनासिताख्यां चारी विधाय, कुचितमङ्खिमुत्क्षिप्य ऊरू:, कटी, जानु च त्र्यश्रतया विवर्तितो भवति । एकः व्यावृत्तिपरिवृत्तिभ्यां डोलाकरो भवति, अन्यः खटको भवति, तद् अन्वर्थ भुजङ्गत्रासिताख्यं करणं भवति ॥ ६१३, ६१४ ॥
इति भुजङ्गवासितम् (२१) __ (सु०) अलातं लक्षयति–चार्येति । यत्र अलाताख्या चारी; नितम्बाख्यः कर: दक्षिगहस्तः चतुरश्रो भवति । वामोऽपि ऊर्ध्वजानुः, अङ्गान्तरं च यदा भवति चेत् , तदा एतदलाताख्यं करणं भवति । तच्च सललिते नृत्ते प्रयोज्यम् ॥ ६१५, ६१५- ॥ |
इत्यलातम् (२२) (सु०) विक्षिप्ताक्षिप्तकं लक्षयति-हस्त इति । यत्र हस्ते व्यावर्तमाने
Scanned by Gitarth Ganga Research Institute