________________
सप्तमो नर्तनाध्यायः पार्थेन भ्रमरी कृत्वा मण्डलस्थानके स्थितः । कृत्वा छिन्नां कटीमेकां वाहोः शिरसि पल्लवम् ॥ ६०८ ॥ करमझान्तरेणैवं यत्र त्रिचतुराः कृताः । आवृत्तयः कटीछिन्नं तद्विस्मयनिरूपणे ॥ ६०९ ॥
इति कटीछिन्नम् (१९) आक्षिप्तामप्यपक्रान्तां चारी कृत्वा करद्वयम् । स्वस्तिकीकृत्य नाभिस्थो दक्षिणः खटकामुखः ॥ ६१० ॥ कट्यामन्योऽर्धचन्द्रश्च कृतः पार्थ च तन्नतम् । अन्यदुद्वाहितं यत्र वृत्तिरङ्गान्तरैस्तथा ॥ ६११ ॥ तत्कीसममादिष्टं वैष्णवस्थानकान्वितम् । प्रयोज्यं सूत्रधारेण जर्जरस्याभिमन्त्रणे ॥ ६१२ ॥
इति कटीसमम् (२०)
(सु०) कटीच्छिन्नं लक्षयति ---पार्वेनेति । यत्र पार्श्वभ्रमणानन्तरं मण्डलाख्ये स्थाने स्थित: सन् , एकां कटी छिनां विधाय, बाहुशिरसि पल्लवं करं कुर्यात् । एवमन्यर जै: यत्र त्रिचतुर आवृत्तयः क्रियन्ते, तत् कटीच्छिन्नं करणं भवति । तच विस्मयनिरूपणे प्रयोज्यम् ॥ ६०८, ६०९ ॥
इति कटीच्छिन्नम् (१९) - (सु०) कटीसमं लक्षयति -आक्षिप्तामिति । यत्र आक्षिप्ताम् , अपकान्तां च चारी कृत्वा, करद्वयं स्वस्तिकं विधाय, दक्षिणहस्तं नाभौ खटकामुखं क्रियते ; वामश्च कटिप्रदेशे अर्धचन्द्रः, तद्वामपार्श्व नतं भवति । अन्यद् दक्षिगपार्श्वमुदाहितं भवति । तत्र वैष्णवस्थानकयुतं कटीसमं करणमुक्तं भवति । तच्च सूत्रधारेण जर्जरस्याभिमन्त्रणे प्रयोज्यं भवति ॥ ६१०-६१२ ॥
इति कटीसमम् (२०)
Scanned by Gitarth Ganga Research Institute