________________
२०८
संगीतरत्नाकरः ऊर्ध्व व्यावर्तनेनाधः परिवर्तनतः करे । पार्थक्षेत्राद्भ्राम्यमाणे जयास्वस्तिकमाचरेत् ।। ६२४ ।। ततोऽपक्रान्तचारीकस्तद्दिकश्चरणो यदा। घामो डोलाकरः प्रोक्तं करणं घूर्णितं तदा ॥ ६२५ ॥
इति पूजितम् (२५) कुश्चिते चरणे चार्या मूर्बजानौ यदा करः। तदिग्भवोऽलपद्मो वारालश्चोर्ध्वमुखो भवेत् ॥ ६२६ ॥ पक्षवश्चितकौ चोर्ध्व स्तनसाम्यस्थजानुनः । खटकास्योऽपरो वक्षस्यूर्ध्वजानु तदोच्यते ॥ ६२७ ॥
इत्यूर्ध्वजानुः (न) (२६) कृतश्चेत्, तदा निकुञ्चिताख्यं करणं भवति । एतत् उत्पतनौत्सुक्यवितर्कादौ प्रयोज्यम् | अन्ये आचार्याः अस्निन् नासाप्रगौ पताकसूच्यास्यौ जगुः ।। ॥ -६२१-६२३ ॥
इति निश्चितम् (२४) ___ (सु०) घृणितं लक्षयति-ऊर्वमिति । ऊर्ध्वम् उपरि व्यावर्तनेन, अधः; अध:प्रदेशे परिवर्तनेन च पार्श्वक्षेत्रात् हस्ते भ्राम्यमाणे सति जङ्घास्वस्तिकमाचरेत् । वामचरणश्च अपक्रान्ताख्यया चार्या युक्तः सन् तस्य दिगभिमुखो. भवति । चरणश्च डोलाख्यः ; तदा घूर्णितं करणं भवति ॥ ६२४, ६२५ ॥
इति घूर्णितम् (२५) ___ (सु०) ऊर्ध्वजानु लक्षयति-कुञ्चित इति । कुञ्चिते चरणे सति, ऊर्ध्वजानुसंज्ञायां चार्या सत्याम् , तदिग्भवः; तस्यां दिशि जात: करः अलपद्मः, अथवा अरालश्च ऊर्ध्वमुखो भवेत् ; स्तनसाम्ये वर्तमानस्य जानुनः । ऊर्ध्वप्रदेशे पक्षवञ्चितको भवेत् ; अपरस्तु वक्षसि खटकामुखः । तत ऊर्ध्वजान्वाख्यं करणं भवति ॥ ६२६, ६२७ ॥
इत्यूर्ध्वजानु (२६)
Scanned by Gitarth Ganga Research Institute