________________
२००
संगीतरत्नाकरः दक्षिणः करिहस्तः स्याद्वामस्तु खटकामुखः ।। ५८५ ॥ वक्षस्थः स्वस्तिको पादौ यत्रार्धस्वस्तिकं तु तत् । अन्ये करिकरस्थाने पक्षवश्चितकं परम् ।। ५८६ ॥ पक्षपद्योतकं चार्धचन्द्रं कटिगतं विदुः ।
इत्यर्धस्वस्तिकम् (८) पार्थयोरग्रतः पृष्ठे स्वस्तिकोऽत्र दिशं गतः ॥ ५८७ ।। कराञी रेचितौ यत्र तदिक्स्वस्तिकमुच्यते । तद्गीतपरिवर्तेषु विनियुक्तं पुरातनैः ।। ५८८ ॥ स्वस्तिकप्रक्रियैपा स्यात्स्वस्तिकोक्त्यन्तरेष्वपि ।
इति दिक्स्वस्तिकम् (५) उद्वेष्टितक्रियापूर्व बाहोविक्षिप्यमाणयोः ।। ५८९ ।।
(सु०) अर्धस्वस्तिकं लक्षयति-दक्षिण इति । यत्र दक्षिणः करः करिहस्तः, वाम: करः खटकामुखः, पादौ च वक्षस्थः स्वस्तिकौ भवतः; तद् अर्धस्वस्तिकं भवति । अन्ये आचार्याः; करिकरस्थाने पक्षवञ्चितकं, पक्षप्रद्योतकं चार्धचन्द्रं कटिगतमाहुः ॥ -५८५, ५८६- ।।
इत्यर्धस्वस्तिकम् (6) (सु०) दिक्स्वस्तिकं लक्षयति-पार्वयोरिति । यत्र कराभ्यामङ्घिभ्यां च कृत: स्वस्तिकः, पार्श्वयोः अग्रत: पृष्ठेन यत्र भ्राम्यते, तत् दिक्स्वस्तिकम् । तच भ्रान्तपरिवर्तने प्रयोज्यम् । एषा स्वस्किप्रक्रिया स्वस्तिकान्तरेष्वपि स्यात् ॥-५८७, ५८८-॥
इति दिवस्वस्तिकम् (९) (मु०) पृष्ठस्वस्तिकं लक्षयति-उद्वेष्टितेति । बाह्रोः ; हस्तयो: उद्वेष्टित
Scanned by Gitarth Ganga Research Institute