________________
सप्तमो नर्तनाध्यायः
कृत्वा वामपक्रान्तां क्रियमाणेऽपवेष्टने । रेचयित्वान्यचरणं सूचीस्वस्तिकमाचरेत् ।। ५९० ॥ यत्राङ्घ्रिभ्यां कराभ्यां च तत्पृष्ठस्वस्तिकं भवेत् । एतन्निषेधराभस्यपरान्वेषणभाषणे ।। ५९१ ॥ प्रयुक्तं नाव्यतत्त्वज्ञैरन्यैर्युद्धपरिक्रमे ।
इति पृष्ठस्वस्तिकम् ( 10 )
उद्वेष्टितेन निष्कास्य पाण्योर्व्यावर्तमानयोः ।। ५९२ ।। उत्प्लुत्य युगपद्यत्र कराङ्घ्रिः स्वस्तिकः कृतः । तत्स्वस्तिकं प्रयोक्तव्यं बुधैः पूर्वोकवस्तुनि ॥ ५९३ ॥ इति स्वस्तिकम् (११)
व्यावर्त परिवर्ताभ्यां नासादेशं गतो यदा ।
२०१
क्रियापूर्वं भवति । ततः विक्षिप्यमाणयोः बहोः अपक्रान्तां चारों कृत्वा, अपवेष्टने क्रियमाणे सति, अन्यचरणं रेचयित्वा पादाभ्यां कराभ्यां च सूचितस्वस्तिकं क्रियते, तत्र पृष्ठस्वस्तिकम् । एतच्च निषेधराभस्यपरान्वेषणभाषणयुद्धपरिक्रमेषु प्रयोज्यम् ॥ -५८९-५९१- ॥
इति पृष्ठस्वस्तिकम् ( 10 )
(सु० ) स्वस्तिकं लक्षयति- उद्वेष्टितेनेति । हस्तयोः उद्वेष्टितेन निष्कान्तयोः पश्चाद्वयावर्तनानयोः सतो: उत्पतनं कृत्वा, यत्र करयोः अङ्योश्च स्वस्तिकः क्रियते । तत् स्वस्तिकाख्यं करणम् ॥ ५९२, ५९३ ॥ इति स्वस्तिकम् (११)
(सु० ) अञ्चितं लक्षय ते - व्यावर्तेति । घ्यावतने परिवर्तने च नासिकाप्रदेशं प्राप्तः करिहस्तः, यदा अलपद्मत्वं धत्ते, तदा अञ्चिताख्यं
26
Scanned by Gitarth Ganga Research Institute