________________
१९९
सप्तमो नर्तनाध्यायः चतुरश्रौ करौ वक्षःस्थितौ कृत्वाथ रेचितौ । व्यावर्तितेन चानीयाभुग्ने वक्षसि यत्र तौ ॥ ५८१ ॥ स्वस्तिको स्वस्तिको पादौ तद्वक्षःस्वस्तिकं मतम् । अनाभुनांसमेतच्च योज्यं लज्जानुतापयोः ॥ ५८२ ॥
इति वक्षःस्वस्तिकम् (६) हस्तौ हत्क्षेत्रगौ यत्र व्यावृत्योर्ध्वं च पार्श्वयोः । शिकं हंसपक्षं च द्रुतभ्रममधोमुखम् ॥ ५८३ ॥ वक्षः प्राप्यापरं तादृग्भूतं निष्क्रामयेत्ततः । पादावश्चितसूच्यौ च तत्स्यादाक्षिप्तरेचितम् ॥ ५८४ ॥ अनेनाभिनये त्यागपरिग्रहपरम्परा ।
इत्याक्षिप्तरेचितम् (७)
(सु०) वक्षःस्वस्तिकं लक्षयति-चतुरश्राविति । यत्र वक्षःस्थितचतुरश्रानन्तरं रेचितौ करौ, व्यावर्तितेन भुग्ने वक्षसि आनीय स्वस्तिकौ भवतः, पादावपि स्वस्तिको क्रियेते, तत् वक्षःस्वस्तिकम् । एतदेव ईषद्भुनांसं सत् लज्जानुतापयोः प्रयोज्यम् ॥ ५८१, ५८२ ॥
इति वक्षःस्वस्तिकम् (६) (सु०) आक्षिप्तरेचितं लक्षयति-हस्ताविति । हृदयक्षेत्रे वर्तमानौ हस्तौ यत्र ऊर्ध्व व्यावृत्त्य वर्तनयुक्तौ विधाय, पाश्र्वयोः निक्षिप्य, एकं हंसपक्षं द्रुतभ्रमं भ्रामितम् अधोमुखं वक्षो नत्वा, द्वितीयं करं तादृग्भूतं हंसपक्षं भ्रामितमधोमुखं निष्क्रामयेत् । ततः पादौ अञ्चितसूच्यौ च कुर्यात् । तद् आक्षिप्तरेचितं भवति । तत् त्यागपरिग्रहपरंपरायां कार्यम् ॥ ५८३, ९८४- ।।
इत्याक्षिप्तरेचितम् (७)
Scanned by Gitarth Ganga Research Institute