________________
१९८
संगीतरत्नाकरः वक्ष क्षेत्रे समं हस्तौ व्यावृत्तपरिवर्तितौ ॥ ५७६ ॥ विधायाक्षिप्तया चार्या संहतौ परिवर्तनात् । तत्रानीय निधीयेते शुक्रतुण्डावधोमुखौ ।। ५७७ ॥ पद्धया ते स्थितिर्यत्र वलितोरु तदुच्यते । मुग्धस्त्रीव्रीडिते चास्य प्रयोगः शाणिोदितः ॥ ५७८ ॥
इति वलितोह (४) चतुरश्रौ करौ कृत्वा विदधद्विच्यवां ततः। उद्वेष्टितक्रियापूर्वमूर्ध्वमण्डलिनौ करौ ॥ ५७९ ॥ विधाय स्वस्तिकौ कुर्यादत्र स्थानं च मण्डलम् । मण्डलस्वस्तिकं तत्स्यात्मसिद्धार्थावलोकने ॥ ५८० ॥
इति मण्डलस्वस्तिकम् (५)
(सु०) वलितोरु लक्षयति-वक्ष:क्षेत्र इति । यत्र समकालमेव हस्तौ व्यावृत्तपरिवर्तितौ विधाय, आक्षिप्तया चार्या परिवर्तनात् संहतो कृत्वा, तत्र वक्षसि तावानीय, शुकतुण्डौ अधोमुखौ कृत्वा, बद्धया स्थितिश्च यत्र कल्प्यते, तद् वलितोरु भवति । अस्य मुग्घस्त्रीबीडिते प्रयोगः ॥ -६७६-१७८ ॥
इति वलितोरु (१) __ (सु०) मण्डलस्वस्तिकं लक्षयति-चतुरश्राविति । यत्र पूर्व चतुरश्रौ हस्तौ विधाय विच्यवाख्यां चारी कुर्वन् , उद्वेष्टतक्रियापूर्व करौ ऊर्ध्वमण्डलिनी विधाय स्वस्तिको कुर्यात् । ततो मण्डलाख्ये वक्ष्यमाणे स्थानके यदि तिष्ठति, तदा मण्डलस्वस्तिकाख्यं करणं भवति । तच्च प्रसिद्धार्थावलोकने कार्यम् ॥ ५७९, ५८० ॥
इति मण्डलस्वस्तिकम् (५)
Scanned by Gitarth Ganga Research Institute