________________
सप्तमो नर्तनाध्यायः
ऊर्ध्वमण्डलिनौ कृत्वा करौ वक्षः स्थितोऽञ्जलिः । निहञ्चितं चांसकूटं यत्र ग्रीवा नता कृता ।। ५७२ ।। लीनं तत्करणं योज्यं वल्लभाभ्यर्थने बुधैः । इति लीनम् (२)
१९७
आलिष्टौ मणिबन्धस्थस्वस्तिकाभिमुखौ करौ ।। ५७३ ॥ 'कृत्वा वक्षस्येककालं व्यावृत्तपरिवर्तितौ । उत्तानौ पातयेदूर्वोर्यत्र तद्वर्तितं मतम् ।। ५७४ ॥ असूयायां प्रयोगः स्यात्पताकौ यदि पातयेत् । अधोमुख निघृष्टौ तौ क्रोधं सूचयतः करौ ।। ५७५ ।। शुकतुण्डादयोऽप्यन्ये विनियोगवशादिह । इतिवर्तितम् (३)
त्याज्ययोः करयोः अनुगा तदानुगुण्येन कर्तव्या: । एतत् तलपुष्पपुटाख्यं करणम्, पुष्पाञ्जलिविक्षेपे लज्जायां च प्रयोज्यम् ॥ ५६८-५७१ ॥ इति तलपुष्पपुटम् (१)
( मु० ) लीनं लक्षयति – ऊर्ध्वेति । ऊर्ध्वमण्डलिनौ करौ विधाय, वक्षः स्थितोऽञ्जलिः कार्यः । अंसद्वयं निहञ्चितं कृत्वा, यत्र ग्रीवा नता कृता, तत् लीनाख्यं करणम् । तत् वल्लभस्य नायकस्य अभ्यर्थने कार्यम् ॥ १७२, १७२ ॥ इति लीनम् (२)
(सु० ) वर्तितं लक्षयति - आश्रिष्टाविति । यत्र मणिबन्धौ स्वस्तिकसंमुखौ करौ कृत्वा, वक्षसि समकालमेव व्यावृत्तपरिवर्तितौ विधाय, ऊरुद्वये उत्तानौ पातयेत् तद् वर्तिताख्यं करणम् । तस्य असूयायां प्रयोगः । यदि करौ पताकौ कृत्वा अधोमुखौ पात्येते, तदा क्रोधे विनियोगः । इह ; अस्मिन् करणे विनियोगवशात् शुकनुण्डादयोऽप्यन्ये कराः संभवन्ति ॥ - ५७३-५७५ ॥ इति वर्तितम् (३)
Scanned by Gitarth Ganga Research Institute