________________
१९६
संगीतरत्नाकरः व्यावर्तनात्करयुगे दक्षिणं पार्धमागते ॥ ५६८ ॥ परिवर्तनतो वामपार्थ संनतमाश्रिते । तत्कुचक्षेत्रसंविष्टो यस्य पुष्पपुटः करः ॥ ५६९ ॥ तलपुष्पपुटं तत्स्यात्पादेऽग्रतलसंचरे । यद्यनन्तरमेतत्स्यात्करणं करणान्तरात् ॥ ५७० ॥ तदा करक्रिया तत्तत्त्याज्यग्राह्यकरानुगा। एतत्पुष्पाञ्जलिक्षेपे लज्जायां च नियुज्यते ॥ ५७१ ॥
___ इति तलपुष्पपुटम् (१) मानानां चारीणां स्थानानां च स्वरूपं वक्ष्यमाणतत्तल्लक्षणवशाद्विवक्षया अत्र करणेषु योजनीयम् । यद्यनन्तरमिति । एतत्करणं तलपुष्पपुटाख्यं प्रथममप्रयुज्यमानं सद्यदि करणान्तरादनन्तरं स्यात्तदास्य करक्रिया करयोः क्रिया-तत्तत्याज्यग्राह्य करानुगेति । तस्मिंस्तस्मिन्करणे लक्षणवशात्त्याज्ययो ह्ययोर्वा करयोरनुगा अनुसारिणी कर्तव्येत्यर्थः । अयमभिप्रायःइदमेव तलपुष्पपुटं प्रथमं प्रयुज्यते चेदुक्तलक्षणयुक्तमेव प्रयोक्तव्यम् । करणान्तरानन्तरं प्रयुज्यते चेत्तदा तदनुसारेणेति । अयं न्यायः करणान्तरेष्वप्युन्नेयः । करणानां लक्षणाणि ग्रन्थत एव सुबोधानि ॥ ५६८-६४७ ॥
इति तलपुष्पपुटम् (१) (सु०) तलपुष्पपुटाख्यं करणं लक्षयति-चार्या इति । अध्यधिकसंज्ञया वक्ष्यमाणया चार्या, दक्षिणे पादे विनिष्क्रामति सति, करयुगे व्यावर्त्य, दक्षिणं पार्श्वमागत्य, परिवर्तन क्रियया संनतं वामपार्श्वमाश्रिते सति, तस्य वामकुचस्य क्षेत्रे स्थित: पुष्पपुटाख्य: करो यत्र भवति । तत तलपुष्पपुटाख्यं करणम् । यदीति । एतत् करणं यदि करणान्तरात् अनन्तरं स्यात् , तदा अस्य हस्तक्रिया तस्य करणपूर्वस्योक्तस्यैव प्रयोक्तव्यः । त्याज्यग्रहकरानुगा;
Scanned by Gitarth Ganga Research Institute