________________
सप्तमो नर्तनाध्यायः
अथ लक्षणमेतेषां वक्ष्ये लक्ष्यविदां मतम् ॥ ५६६ ॥ मायशो नर्तनारम्भे समपादौ लताकरौ । चतुरथं भवेद विशेषस्त्वयमुच्यते ॥ ५६७ ॥ चार्याध्यधिकया पादे विनिष्क्रामति दक्षिणे ।
१९५
स्खलितम्, सिंहविक्रीडितम्, सिंहाकर्षितम्, अवहित्थकम्, निवेशकम्, एडकाक्रीडितम् जनितम्, उपसृतम्, तलसंवट्टितम् उद्वृत्तम्, विष्णुक्रान्तम्, लोलितम्, मदस्खलितम्, संभ्रान्तम्, विष्कम्भम्, उद्घट्टितम्, शकटास्यम्, ऊरूवृत्तम्, वृषभक्रीडितम्, नागापसर्पितम्, गङ्गावतरणमित्यष्टोत्तरशतं करणानि भवन्ति ॥ - ५४८-५६९- ॥
इति करणानामुद्देशः ।
(क०) अथोद्देशक्रमेण करणानि लक्षयितुमाह-अथ लक्षणमिति ॥ - ५६६ ॥
(क०) नर्तनादौ सकलकरणसाधारणमङ्गसंनिवेशं तावदाहप्रायश इति । विशेषस्त्वयमुच्यत इति । अयमिति वक्ष्यमाणतलपुष्पपुटकरणस्य संनिवेशः || ५६७ ॥
(सु० ) करणानामियत्तापरिच्छेदव्यवस्थामाह - गतीति । गतिः गमनम्, स्थितिः स्वस्थानं च प्रयोगाणामानन्त्यात् करणान्यप्यपरिमितानि । किंतु अङ्गहारेषु इयतामेवोपयोगः । तेषां लक्षणं प्रतिज्ञाय कथयति - अथेति । प्रायश: ; बाहुल्येन, नर्तनारम्भे ; नर्तनारम्भकाले, समपादौ समौ पादद्वयौ, लताकरौ चतुरश्रम् अङ्गं भवेत् । इदं तु सर्वसाधारणम् । अयम्; अधुना वक्षयमाणतलपुष्पपुटकरणानां संनिवेशविशेषस्तु अभिधीयत इत्यर्थः ॥
॥ -५६६-५६७ ॥
( क ० ) तमेव विशेषमाह – चार्येत्यादि । अत्र करणाङ्गत्वेनोच्य
Scanned by Gitarth Ganga Research Institute