________________
१९४
संगीतरत्नाकरः नामेवोपयोगिता। उपयोगो येषामस्तीत्युपयोगीनि । उपयोगिनां भाव उपयोगिता। अङ्गहारेषूपयोगवशादष्टोत्तरशतं करणान्युद्दिष्टानीत्यर्थः ॥ ॥ ५५०-५६५.॥
इति करणानामुद्देशः । (सु०) करणैः नृत्यतीत्युक्तम् । तत्र किमिदं करणमित्यपेक्षायामाहस्यादिति । करपादादेः अवयवसमूहस्य, विलासेन ; शोभया, अत्रुटद्रसा; अच्छिद्यमानो रसो यस्यां सा, तथाविधा क्रिया करणमित्युच्यते । तदेव करणं नृत्यकरणशब्देनाप्यभिधीयते । अत्र दृष्टान्तमाह-भीमदिति । यथा एक एवं युधिष्ठिरानुजो यदाधिक्येनैव भीमशब्देन भीनसे नशब्देन चोच्यते ; तद्वदित्युर्थः । अस्य करणस्य प्रभेदान् , भरतोदितान् भरतेनोक्तान् वदामः । तलपुष्पपुटमिति । तल पुष्पपुटम् , लीनम् , वर्तितम् , वलितोरु, मण्डलस्वस्तिकम्, वक्ष:स्वस्तिकम् , आक्षितरेचितम् , अर्धस्वस्तिकम् , दिक्स्वस्तिकम् , पृष्ठस्वस्तिकम्, स्वस्तिकम् , अञ्चितम् , अपविद्धम् , समनखम् , उन्मत्तम् , स्वस्तिकोचितम्, निकुष्कर, अर्धनिकुडकर, कटीच्छिन्नम् , कटीसमम् , भुजङ्गत्रासितम् , अलातम्, विक्षिताक्षिप्तकम् , निकुञ्चितम् , घूर्णितम् , ऊर्ध्वजानु, अधरेचितम् , मत्तल्लि, अर्धमत्तलि, रेचकनिकुट्टकम् , ललितम् , वलितम् , दण्डपक्षम् , पादापविद्धकम् , नूपुरम , भ्रमरम्, छिन्नम् , भुजङ्गत्रस्तरेचितम् , भुजङ्गाश्चितम् , दण्डरेचितम् , चतुरम्, कटिभ्रान्तम् , व्यंसितम्, क्रान्तम्, वैशाखरेचितम् , वृश्चिकम, वृश्चिकनिकुट्टकम्, वृश्चिकरेचितम्, लतावृश्चिकम् , आक्षिप्तम् , अर्गलम् , तलविलासितम्, ललाटतिलकम, पार्श्वनिकुट्टकम् , चक्रमण्डलम् , उरोमण्डलम् , आवर्तम् , कुञ्चितम् , डोलापादम् , विवृत्तम् , विनिवृत्तम्, पार्श्वक्रान्तम् , निशुम्भितम् , विद्युभ्रान्तम् , अतिक्रान्तम् , विक्षिप्तम् , विवर्तितम् , गजविक्रीडितम् , गण्डसूचि, गरुडप्लुतम् तलसंस्फोटम् , पाच जानु, गृध्रावलीनकम् , सूचि, अर्धसूचि, सूचीविद्धम , हरिणप्लुतम् , परिवृतम् , दण्डपादम् , मयूरललितम् , प्रेड्खोलितम्, संनतम् , सर्पितम्, करिहस्तम् , प्रसर्पितम्, अपक्रान्तम् , नितम्बम् ,
Scanned by Gitarth Ganga Research Institute