________________
१८८
संगीतरनाकरः नासादेशे द्विस्त्रि, पतितोत्पतितेनाभिनथेत् । ततो मृग्यत इति पदश्यार्थ तेनैवोद्वेष्टितपूर्वकेण कर्तरीमुखेन पार्श्वतलेन पराङ्मुखेन हृदयदेशे शनैमितेनामिनयेत् ।
___ ततः स इति पदार्थ वामेन यच्छन्दार्थवदभिनयेत् । ततः स्थाणुपदस्यार्थ व्यावर्तितर्वकेण पताकद्वयेन शिरोदेशेऽञ्जलिं बद्धाभिनयेत् । ततः स्थिरपदस्यार्थ परिवर्तितपूर्वकेण संदंशद्वयनोत्तानितेन पराङ्मुखेनोरोदेशे निहितेनाभिनयेत् । ततो भक्तिपदस्यार्थ परिवर्तितपूर्वकेण पताकद्वयेन हृदयेऽञ्जलिं बद्धाभिनयेत । ततो योगपदस्याथै परिवर्तितपूर्वकेण संदंशद्वयनोत्तानितेन मुमुक्षुवदभिनयेत् । किंतु वामहस्तं नाभौ पताकमुत्तानितं कुर्यात् । ततः सुलभपदस्यार्थ व्यावर्तितपूर्वकेण दक्षिणेन चतुरेणोत्तानेन पार्श्वमुखेन हृदयं प्रति संमुखागतेनाभिनयेत् । ततो निःश्रेयसायेति पदस्यार्थ व्यावर्तितपूर्वकेणारालद्वयेनोत्तानितेन पुरोमुखेन संवलनमूर्ध्वगतेनाभिनयेत् । ततोऽस्त्विति पदस्याथै दक्षिणेन परिवर्तितपूर्वकेण पताकेनोत्तानितपार्श्वमुखेन पान्तिरगतेनाभिनयेत् । ततो व इतिपदार्थ परिवर्तितपूर्वकेण पताकद्वयनोत्तानितेन पुरोमुखेनाग्रगेणाभिनयेत् ।
___ एवं सर्वत्र हस्तान्तरालपरिपूरकत्वेन करणप्रयोगो द्रष्टव्यः । अत्र पदार्थानां हम्तैरभिनये विभक्त्यर्थानामपि पृथगभिनयं केचिल्लक्षयन्ति । तेषां वाचिकेनैवावगम्यमानत्वेन पृथङ्मुनिनान भिधानादम्माभिर्न प्रपञ्च्यन्ते । एवं सर्वत्राङ्गिके प्रकृत्यर्थाभिनयनैव प्रत्ययार्थोऽप्यभिनीतप्राय एव द्रष्टव्यः । विधौ हि प्रत्ययार्थस्यैव प्राधान्यात्प्रकृत्यर्थानन्तरं सोऽप्यभिनेयः । निषेधेऽपि नार्थस्य प्राधान्यादभिनेयता। अन्यत्र सिद्धरूपेऽर्थे प्रकृत्यर्थस्यैव प्राधान्यात्स एवाभिनेयो न प्रत्ययार्थः । अयमत्र विशेषः-यत्र प्रत्ययार्थस्य प्राधान्यं, तत्र पूर्व प्रकृत्यर्थोऽभिनीयते पश्चात्प्रत्ययार्थः । यत्र प्रकृत्यर्थस्य
Scanned by Gitarth Ganga Research Institute