________________
सप्तमो नर्तनाध्यायः
१८७ वामेन शिखरेण स्वसंमुखतलेन पार्श्वमुखेन किंचिदधोगतेनाभिनयेत् । ततो रोदसीति पदग्यार्थमुद्वेष्टितपूर्वकं दक्षिणेन पताकेनोत्तानेनोर्ध्वमुखेनो
गतेन दिवं दर्शयित्वा पश्चातेनैव चाधोमुखेनाधोगतेन भूमि दर्शयित्वाभिनयेत् ।
ततो यस्मिन्निति पदस्याथै बामेन पूर्वोक्तयमिति पदार्थवदभिनयेत्। तत ईश्वर इति पदस्यार्थमुद्वेष्टितकरणपूर्वकं दक्षिणेन चतुरेणोत्तानेनोर्ध्वमुखेनास्यदेशात्कचित्पार्श्वगतेनाभिनयेत् । तत इतिपदस्यार्थमावेष्टितकरणपूर्वकं दक्षिणेन मृगशीर्षणाधस्तलेन पार्श्वमुखेन संमुखागतनाभिनयंत् । ततोऽनन्यविषय इति पदार्थे नमोऽर्थमुद्रेष्टितपूर्वकं वामेन खटकामुखेन मुक्तकटकेनाभिनयेत् । तेनैव सूचीमुखरूपेण पुनरुद्वेष्टितपूर्वकमुत्तानेन पार्श्वगतेनान्यपदस्यार्थमभिनयेत् । ततो विषयपदस्यार्थमुद्वेष्टितपूर्वकं दक्षिणेन चरणेनोतानेन पराङ्मुखेन किंचित्पार्श्वगतेनाभिनयेत् । ततः शब्दपदस्यार्थ त्यावर्तितपूर्वक वामेन सूचीमुखेनाग्रतस्तलेन कर्णरन्ध्राभिमुखेनाभिनयेत् । ततो यथार्थपदस्यार्थमुद्वेष्टितपूर्वकं दक्षिणेन संदंशेनोत्तानितेन किंचिदूर्ध्व गत्वाधोगतेनाभिनयेत् । ततोऽक्षरपदम्यार्थमावेष्टितपूर्वकं दक्षिणेन संदंशेनामतस्तलेनोर्ध्वमुखेन क्रियया पार्श्वगतेनाभिनयेत् ।
ततोऽन्तःपदस्यार्थ व्यावर्तितपूर्वकं दक्षिणेन संदंशेन संमुखेन हृदयनिहितेनाभिनयेत् । ततो य इति पदस्यार्थ पूर्ववदभिनीय, चेतिपदस्याथै तेनैव किंचित्पार्श्वप्रसारितेनाभिनयेत् । ततो मुस्कृभिरिति पदस्यार्थ संमुखागतेन व्यावर्तितपूर्वकं संदंशद्वयनोत्तानितेन नाभिहृद्देशयोरुपयुपरिविन्यस्तेनाभिनयेत् । ततो नियमितपदस्वार्थ व्यावर्तितपूर्वकं वामेन शिखरेण संमुखा. गतेन हृदयदेशे निहितेनाभिनयेत् । ततः प्राणादिभिरिति पदस्यार्थ व्यावर्तितपूर्वकेण दक्षिणेन संदंशेन स्वसंमुखतलेन पार्श्वमुखेन संमुखागतेन
Scanned by Gitarth Ganga Research Institute