SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १८६ संगीतरत्नाकरः " वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः । अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मग्यते ___स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः ॥" इति विक्रमोर्वशीये नान्दीश्लोकः । अस्याभिनयप्रकारस्तु-प्रथम तालधरेण सकृत्तालाघातं ' तत्ताधी' इति शब्दे दीयमाने नटी वा, नटो वा सूत्रधारत्वेन प्रविष्टं पात्रं तच्छन्दसमकालमेव मण्डलस्थानकेन सह चतुरश्रौ करौ कृत्वा, गायनीभिः वेदान्तेषु इत्यादिषु पदेषु गीयमानेषु तत्स्वरप्रमाणेन प्रथमं तावद्वेदपदस्याथै निकुश्चितकरणोत्तानेन पराङ्मुखेनाधोगतेनोद्वेष्टितकरणपूर्वकं सविलासमभिनयेत् । अभिनये सर्वत्र दृष्टिं हस्तानुगतां कुर्यात् । ततोऽन्तेष्विति पदस्यार्थ सूचीमुखेनाप्रतस्तलेन पार्श्वमुखेनोर्ध्वगते. नाभिनयेत् । तदा निकुश्चकसूचीमुखयोर्मध्यमावर्तितं करणं भवति । ततो यमिति पदस्याथै व्यावर्तित करणपूर्वकं वामेन सूचीमुखेनाग्रतस्तलेनोर्ध्वमुखेन पार्श्वगतेनाभिनयेत् । तदानीं दक्षिणहस्तोऽपि कट्यां वा नाभिदेशे वा स्थितः कर्तव्यो भवति । अनन्तरमाहुरिति पदस्यार्थमुद्वेष्टितकरणपूर्वक दक्षिणेन हंसायनास्यदेशे किंचित्प्रसारितेनोर्ध्वमुखेनोत्तानेनाभिनयत् । तदानीमेव वामहस्तोऽपि कटीनाभिचरः कर्तव्यो भवति । एवं सर्वत्रासंयुतेन हस्तनाभिनयेत् , तदन्यः कटीनाभिवरः कर्तव्य इति वेदितव्यम् । तत एकति पदस्यार्थमावेष्टितपूर्वकेण दक्षिणेन सूचीमुखेनोर्ध्वमुखेनाग्रतम्तलेनाअगतेनाभिनयेत् । ततः पुरुषमिति पदस्यार्थमुद्वेष्टितकरणपूर्वकं वामेन चतुरेण स्वसंमुखतलेन पार्श्वमुखेन ऊर्ध्वमेवाभिनयेत् । ततो व्याप्येति पदस्योर्ध्वमुद्वेष्टितपूर्वकं दक्षिणेन पताकेनोत्तानेन परामुखेन पार्श्वगतेन स्वयमेकां भ्रमरिकां कृत्वाभिनयेत् । ततः स्थितमिति पदस्यार्थ व्यावर्तितकरणपूर्वकं Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy