________________
सप्तमो नर्तनाध्यायः .
१८५ यत्तु क्रमेण निर्याणमङ्गुलीनां तलादहिः । वक्षःस्थलात्करस्यापि तदुद्वेष्टितमुच्यते ।। ५४१॥ आवेष्टितपक्रियया कार्य व्यावर्तितं करे । उद्वेष्टितेन व्याख्यातं करणं परिवर्तितम् ॥ ५४२ ॥ कित्वेतत्करणद्वन्द्व कनिष्ठाद्यगुलीकृतम् ।
इति चत्वारि काकरणानि । (क०) उद्वेष्टितं लक्षयति-पत्चित्यादि । नलद्धहिः ; हम्ततलावहिः, पराचीनत्वेन तर्जन्यादीनां क्रमेण पूर्वोक्तेन यन्निर्याणं प्रादुर्भावः ; वक्रत्वेन स्थितानामगुलीनां तर्जन्यादिक्रमेण ऋजुकरणमिति यावत् । तस्मिन्नेवाङ्गुलीनिर्गमनकाले । करस्यापीति । तदगुल्याश्रयभूतस्य हस्तम्य । अपिशब्देनानुषङगानिर्याणं समुच्चीयते । वक्षःस्थलात्कारस्यापि यन्निर्माणमिति । तदुद्वेष्टितमुच्यत इति संबन्धः ॥ ५४१ ॥
(क०) व्यावर्तितं लक्षयति-आवेष्टितपक्रिपयेति । प्रकृष्टा क्रिया प्रक्रिया। आवेष्टिता आवृत्तिरूपेत्यर्थः । तया करे व्यावर्तितं कार्यम् । परिवर्तितं लक्षयति-- उद्वेष्टितेनेति । व्याख्यातमिति । उद्वेष्टितेन, उद्धतप्रक्रिययेत्यर्थः ॥ ५४२ ॥
(क०) व्यावर्तितपरितर्तितयोः क्रमादावेष्टितोद्वेष्टिताभ्यां स्वरूपभेदं दर्शयति-- किंस्विति । एतत्करणद्वन्द्वम् ; व्यावर्तितं परिवर्तितं च । कनिष्ठाद्यगुलीकृतमिति । तर्जन्यायगुलीकृतादावेष्टितात्कनिष्ठाद्यगुलीकृतस्य व्यावर्तितस्य स्वरूपभेदः, तथा तर्जन्याद्यगुलीकृतादुद्वेष्टितात्कनिष्ठाद्यगुलीकृतस्य परिवर्तितस्य च स्वरूपभेदो द्रष्टव्य इत्यर्थः । एतेषामुष्टितादीनां चतुर्णा करणानामभिनययोगदर्शनायक नाटकवाक्यमभिनीय दर्शयामः । यथा
24
Scanned by Gitarth Ganga Research Institute