SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १८४ संगीतरत्नाकरः तर्जन्याद्यङ्गुलीनां यद्भवेदावेष्टनं क्रमात् ॥ ५३९ ॥ तलसंमुखमावक्षः करोऽप्यायाति पार्थतः । तदावेष्टितमाख्यातं करस्य करणं बुधैः ॥ ५४० ॥ भवति, क्वचिदधस्तलत्वेन, क्वचित्पार्श्वतलत्वेनेत्येवमादिप्रचारयोगेणोचितपदार्थप्रदर्शनायेत्यर्थः । यः क्रियाविशेषः क्रियत इति । पूर्वमुत्तानहस्ताधस्तलत्वे तथाधस्तलस्योत्तानत्वे, तथोत्तानस्य पार्श्वतलत्वे, तथा पार्श्वतलस्याग्रतस्तलत्वे, तथाप्रतस्तलस्य संमुखतलत्वे वा, एवमूर्ध्वमुखत्वादिष्वपि हस्तान्तरकरणे मध्ये मध्ये छिद्राच्छादको यो वर्तनारूपः क्रियाविशेषः क्रियते, तद्धस्तकरणमिति सामान्यलक्षणम् । तस्य करणस्य विशेषान् दर्शयतिआवेष्टितेत्यादि । -५३७, ५३८- ॥ (सु०) हस्तकरणं लक्षयति-निष्पत्ताविति । निष्पत्ती; निष्पत्तिविषये, निरपेक्षायां; अन्यानपेक्षायां सत्यां, य: क्रियाविशेष: कराभिनयार्थ क्रियते, तदेव हस्तकरणम् । तस्य आवेष्टित:, उद्वेष्टित:, व्यावर्तितः, परिवतित इति चत्वारो भेदाः ॥ -५३७, ५३८-॥ (क०) तत्रावेष्टितं लक्षयति-तर्जन्यायगुलीनामिति । अत्रादिशब्देन मध्यमानामिकाकनीयस्योऽमुल्यो गृह्णन्ते । यत्क्रमादावेटनं भवेदिति । ऋजुत्वेन स्थितानां तर्जन्यादीना मगुलीनां मध्ये प्रथम तर्जन्या आवेष्टनं वक्रीकरणम् । तदनु मध्यमायाः, तदन्वनामिकायाः, तदनु कनीयस्या इति क्रमः । अङ्गुलीनां क्रमेण वेष्टनकाल एव करोऽपि तदगुल्याश्रयः पार्श्वतः स्वकीयात्पार्धात्तलसंमुखं हस्ततलमभिनेत्रभिमुखं यथा भवति तथा आवक्षः; वक्षःपर्यन्तमायाति सविलासः सन्नागच्छति चेत्तत्करस्य करणमावेष्टितमिति बुघेराख्यातम् ॥ -५३९, ५४० ॥ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy