SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १८३ सप्तमो नर्तनाध्यायः ऊर्ध्वगोऽधोगतः पार्श्वगतो इस्तोऽग्रगोऽपरः । संमुखागत इत्येतान् प्रचारान् दश पञ्च च ।। ५३६॥ लक्ष्यलक्षणतत्त्वज्ञः शार्ङ्गदेवोऽभ्यभाषत । इति पञ्चदश हस्तप्रचाराः । निष्पत्तौ निरपेक्षायां करस्याभिनयाय यः ।। ५३७ ॥ क्रियाविशेषः क्रियते तद्धस्तकरणं मतम् । भावेष्टितोद्वेष्टिते च व्यावर्तितमतः परम् ।। ५३८ ॥ परिवर्तितमित्येतच्चतुर्धा सूरिसंमतम् । (सु०) अथ पञ्चदश हस्तप्रचारानाह-उत्तान इति । उत्तानः, अधोमुखः, पार्श्वगतःपाणिरिति भरतमतेन करप्रचारत्रिविधः । अपरे आचार्याः, अग्रगः, अधस्तलश्चेति द्वावधिकं जगुः । मिलित्वा करप्रचारा: पञ्च भवन्ति । तत्र अग्रग उत्तानेऽन्तर्भूतः, अधस्तलश्च अधोमुख इति वदन् भट्टनायको भारतीयटीकाकार एवमेवोचितमित्युक्तवान् । शाङ्गदेवस्तु ; उत्तान:, अधस्तल:, पार्श्वगतः, अग्रतस्तलः, स्वसंमुखतलः, ऊर्ध्वमुखः, अधोमुखः, पराङ्मुखः, संमुख:, पार्श्वतोमुखः, ऊर्ध्वगः, अधोगतः, पार्श्वगतः, अग्रगतः, संमुखगत इति पञ्चदश प्रकारान् अभ्यभाषत ॥ ५३२-५३६- ॥ इति पञ्चदश हस्तप्रचाराः। (क०) अथ करणानि लक्षयिष्यन् तेषां सामान्यलक्षणं तावदाह-निप्पत्तावित्यादिना। करस्य पताकादेहस्तस्य निप्पत्तौ तर्जनी मूलसंलग्ना' इत्यादिपूर्वोक्तलक्षणवशेन तत्तत्स्वरूपसिद्धौ निरपेक्षायामावेष्टितादीनि करणान्यनपेक्ष्यैव जातायां सत्यामित्यर्थः । एवंस्थितेऽभिनयाय 'वस्तुस्पर्शे चपेटे च' इत्यादिविनियोगवचनवशाद्वा, युक्तितो वा, संप्रदायाद्वा, लोकतो वा हस्तेनार्थप्रदर्शनाय । अर्थप्रदर्शनं च क्वचिद्धस्तस्योत्तानत्वेन Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy