SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १८२ संगीतरत्नाकरः उत्तानोऽधोमुखः पार्श्वगतः पाणिरिति त्रिधा । प्रचारं भरतो मेने पश्चधा त्वपरे जगुः ।। ५३२ ॥ अग्रगोऽधस्तलश्चेति द्वौ त्रयश्च पुरोदिताः । तत्र त्वग्रग उत्तानोऽधोमुखोऽधस्तलः करः ॥ ५३३ ॥ अन्तर्भूतं वदन्भदृस्त्रित्वमेव समादधे । उत्तानोऽधस्तलः पार्श्वगतो हस्तोऽग्रतस्तलः ॥ ५३४ ॥ स्वसंमुखतलचोर्ध्वमुखोऽधोवदनस्तथा । पराङ्मुखः संमुखश्च हस्तोऽन्यः पार्श्वतोमुखः ॥ ५३५ ॥ (सु०) मुखरागं कथयितुं प्रति जानीते-विवृणोतीति । रसात्मिकां मनोवृत्तिं चित्तवृत्तिव्यञ्जको मुखरागः । अत: रसोपयोगित्वात् मुखरागोऽभिधीयते । तस्य स्वाभाविकादयश्चत्वारो भेदाः । ते यथा-स्वाभाविकः, प्रसन्नः, रक्तः, श्याम इति । तेषां लक्षणमाह-अन्वर्थ इति । अन्वर्थो नाम स्वाभाविकः । स च अनाविष्टेषु भावेषु कार्य: । इति स्वाभाविकः (१); निर्मल: प्रसन्नः । स च हास्ये, शृङ्गारे, अद्भुते च कार्यः । इति प्रसन्नः (२); अरुणो रक्तः । स च करुणे, रौदे, वीरे, तथा अद्भुते च कार्यः । इति रक्तः (३); अन्वर्थः श्यामः । स च बीभत्से, भयानके च कार्यः । शशिनेति | यथा चन्द्रेण दिशो भान्ति, तथा मुखरागेण सर्वाण्यङ्गानि भासन्ते । रसभावान्तरे नयनं यथा प्रतिक्षणमन्यदन्यद्भवेत् , तथा मुखरागोऽपि रसे रसे यथोचितः कार्यः ॥ -५२६-५३१ ॥ इति चतुर्धा मुखरागः। इति मुखराप्रकरणम् । (क०) अथ भरतादिमतभेदेन करप्रचारान् दर्शयति-उत्तानोऽधोमुख इत्यादिना । तेषामप्यर्था द्रष्टव्याः ॥ ५३२-५३६- ॥ इति पञ्चदश हस्तप्रचाराः । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy