________________
सप्तमो नर्तनाध्यायः
१८१ स्वाभाविकः प्रसन्नश्च रक्तश्यामोऽपरस्तथा ।। ५२७ ॥ चतुर्धा मुखरागोऽत्रान्वर्थः स्वाभाविको मतः । अनाविष्टेषु भावेषु सुधीभिः स विधीयते ।। ५२८ ॥
___ इति स्वाभाविकः (१) प्रसन्नो निर्मलो हास्ये शृङ्गारे चाद्भुते भवेत् ।
___इति प्रसन: (२) रक्तोऽरुणः स्यात्करुणे रौद्रे वीरेऽद्भुते तथा ॥ ५२९ ॥
इति रक्त: (३) अन्वों भवति श्यामः स वीभत्से भयानके ।
इति श्यामः (v) शशिनेव दिशोऽङ्गानि शोभन्ते मुखरागतः ॥ ५३०॥ रसभावान्तरे नेत्रमन्यदन्यत्क्षणे भवेत् । यथातथोचितः कार्यों मुखरागो रसे रसे ॥ ५३१॥
इति चतुर्धा मुखरागः। इति मुखरागप्रकरणम् ।
(क०) तद्भेदानुद्दिशति-स्वाभाविक इत्यादि ।-५२७-५२९ ।।
(क०) मुखरागस्याङ्गशोभाकारित्वं सदृष्टान्तपाह-शशिनेवेति । अयं मुखरागो रसे रसे यथोतिस्तथा कार्य इति दृष्टिदृष्टान्तेनाहरसभावान्तर इति ॥ -५३०, ५३१ ।।
इति चतुर्धा मुखरागः। इति मुखरागप्रकरणम् ।
Scanned by Gitarth Ganga Research Institute