________________
१८०
संगीतरत्नाकर:
पतितायं चोद्धताग्रं भूमिलग्नमथोद्धृतम् ।। ५२५ ।। कुश्चन्मध्यं तिरश्वीनमिति षोढा तलं विदुः । इति करणगतानि पञ्चाङ्गानि । इति पाणिगुल्फाङ्गुलितलानि करचरणोपाङ्गानि । विवृणोति मनोवृत्ति मुखरागो रसात्मिकाम् ।। ५२६ । अतो रसोपयोगित्वान्मुखरागोऽभिधीयते ।
(क०) चरणतलभेदानाह - पतिताग्रं चेत्यादि ॥ - ५२५,५२५-॥ इति करणगतानि पञ्चाङ्गानि । इति पाणिगुल्फाङ्गुलितलानि करचरणोपाङ्गानि ।
(सु०) चरणतलं लक्षयति - पतिताप्रमिति । पतिताग्रम्, उद्धृताग्रम्, भूमिलग्नम्, उद्धृतम्, कुञ्चन्मध्यम्, तिरश्चीनमिति चरणतलं षडिधमाहुः ॥ - ५२५, ५२५- ॥
इति करणगतानि पञ्चाङ्गानि ।
इति पाष्णिगुल्फाङ्गुलितलानि करचरणोपाङ्गानि ।
(क० ) अथोद्देशक्रमेण मुखरागं लक्षयितुमाह - विवृणोतीति । मुखरागस्य नाटयोपयोगद्वारा नृतेऽप्युपयोगं दर्शयति- रसात्मिकां मनोवृत्ति वितृणोतीति । रसात्मिकां शृङ्गारादिरूपाम् ; अनेन मनोवृत्तिरित्यादि स्थायिस्वरूपत्वं, निर्वेदादिसंचारिभावरूपत्वं चावगन्तव्यम् । तेषामपि रसेव्वन्तर्भावात् । अत एवास्य मुखरागस्य नृत्तेऽप्युपयोगो द्रष्टव्यः । नृतस्याभिनयोपेतत्वाभावेऽपि क्वचिन्नाट्याङ्गतया रसव्यञ्जकत्वाङ्गीकारात् क चित्स्वातन्त्र्येण गीतादिषु प्रयोगेऽपि गीते वाक्यार्थभूतरसव्यञ्जकत्वाच्च नृत्ते - sपि मुखरागस्योपयोगो द्रष्टव्यः । अतोऽत्र नृत्तप्रकरणे मुखरागस्य संगत्यभावो न शङ्कनीयः ॥ -५२६, ५२६- ॥
"
Scanned by Gitarth Ganga Research Institute