________________
सप्तमो नर्तनाध्यायः अधःक्षिप्तास्तथोत्क्षिप्ताः कुश्चिताश्च प्रसारिताः ॥५२१ ॥ संलग्नाश्चेति चरणाङ्गुलयः पञ्चधा मताः।। मुहुः पातादधःक्षिप्ता विबोके किलकिश्चिते ॥ ५२२॥ उत्क्षिप्ता मुहुरुत्क्षेपानवोढायास्त्रपाभरे । संकोचात्कुश्चिताः शीतमूर्छात्रासग्रहार्दिते ।। ५२३ ॥ प्रसारिता ऋजुस्तब्धा स्तम्भे स्वापेऽङ्गमोटने । अगुष्ठस्याप्यमी भेदा ज्ञातव्या नृत्तकोविदः ॥ ५२४ ॥ स्वाङ्गुष्ठासु मिथोलग्नाः संलग्ना घर्षणे मताः ।
इति चरणागुलिमेदाः।
(क०) चरणागुलिभेदानाह - अधःक्षिप्ता इत्यादि ॥ ॥ -५२१-५२४. ॥
इति चरणाङ्गुलिमेदाः । (मु०) चरणाङ्गुलिभेदानाह-अधःक्षिप्ता इति । अध:क्षिप्ताः, उत्क्षिप्ताः, कुञ्चिताः, प्रसारिताः, संलग्ना इति पञ्चभेदाः । तासां लक्षणमाहअधःक्षिप्तेति । मुहुः पातात् अधस्तात् क्षिप्ता अधःक्षिप्ताः, ताश्च बिब्बोके, किलिकिंचिते च प्रयोज्याः । इत्यधःक्षिप्ताः (१); मुहुः वारं वारम् , उत्क्षेपात् उत्क्षिप्ताः । ताश्च नवोढाया लजातिशये कार्याः । इत्युत्क्षिप्ताः (२); संकोचात् कुञ्चिताः। ताश्च शीतमू त्रासग्रहार्दिते कार्याः । इति कुञ्चिताः (३); ऋजुस्तब्धाः प्रसारिताः । ताश्च स्तम्भे, स्वापे, अङ्गमोटने च कार्याः । अमी चत्वारो भेदाः अङ्गुष्ठस्यापि भवन्ति । इति प्रसारिताः (४); स्वाम्गुष्ठा मिथोलग्नाः, परस्परसङ्गता: संलग्नाः । ता घर्षणे कार्या: । इति संलग्नाः (५) ॥ -५२१-५२४-॥
इति चरणागुलिभेदाः।
Scanned by Gitarth Ganga Research Institute