________________
संगीतरत्नाकरः उत्क्षिप्ता पतितोक्षिप्तपतितान्तर्गता तथा ॥५१७ ॥ बहिर्गता मिथोयुक्ता वियुक्ताङ्गुलिसङ्गता। पाणिरित्यष्टधा पादचारीस्थानेषु दृश्यते ॥ ५१८ ॥ गुल्फावङ्गुष्ठसंश्लिष्टावन्तर्यातौ बहिर्मुखौ । मिथोयुक्तौ वियुक्तौ च पश्चधा स्थानकादिषु ॥ ५१९ ।। संयुता वियुता वका वलिताः पतितास्तथा । कुञ्चन्मूलाः करेऽगुल्यः प्रसृताश्चेति सप्तधा ।। ५२० ॥ एते पार्ष्यादिभेदाः स्युः संज्ञाविज्ञातलक्षणाः ।
इति पाणिगुल्फकरागुलिभेदाः। (क०) अथ पाणिभेदानाह-उत्क्षिप्तेत्यादि ॥ ५१७,५१८॥
(सु०) अथ पाणिभेदानाह-उत्क्षिप्तेत्यादि । उत्क्षिप्तादय अष्टौ पाणिभेदाः । उत्क्षिप्ता, पतिता, उत्क्षिप्तपतिता, अन्तर्गता, बहिर्गता, मिथोयुक्ता, वियुक्ता, अगुलिसङ्गतेति । तासां भेदानां नाम्नेव लक्षणं स्पष्टम् ॥ -५१७, ५१८ ॥
(क०) अथ गुल्फभेदानाह-गुल्फावित्यदि ।। ५१९ ॥
(सु०) अथ गुल्फभेदानाह-गुल्फाविति । स्थानकादिषु गुल्फो पञ्चप्रकारौ। अद्गुष्टसंश्लिष्टौ, अन्तर्यातौ, बहिर्गतौ, मिथोयुक्तौ, वियुक्ताविति ॥ ५१९ ॥ (क०) कराङ्गुलिभेदानाह- संयुता वियुतेत्यादि । ५२०,५२० ॥
(सु०) कराङ्गुलिभेदानाह-संयुता इति । करामुल्य: संयुतादिभेदेन सप्तविधाः । संयुताः, वियुताः, वक्रा:, वलिताः, पतिता:, कुञ्चन्मूला:, प्रसृता इति । तासां लक्षणानि स्पष्टार्थानि ॥ ५२०, ५२०- ॥
इति पाणिगुल्फकरागुलिमेदाः ।
Scanned by Gitarth Ganga Research Institute