________________
सप्तमो नर्तनाध्यायः
१८९ धूननं श्लेषविश्लेषौ क्षेपो रक्षणमोक्षणे ॥ ५४३ ॥ परिग्रहो निग्रहश्चोत्कृष्टाकृष्टिविकृष्टयः। ताडनं तोलनं छेदभेदौ स्फोटनमोटने ॥ ५४४ ॥ स्याद्विसर्जनमाहानं तर्जनं चेति विंशतिः । करकर्माणि नृत्तज्ञैरन्वर्थानि वभापिरे ॥ ५४५ ॥
इति विंशतिः करकर्माणि । प्राधान्यं तत्र प्रकृत्यर्थ एवामिनीयते न प्रत्ययार्थ इति । एवं विधिनिषेधानुभवरूपेण हस्ताभिनय क्रिया त्रिविधेति मुनिनोक्तमवगन्तव्यम् ।
एवं कराणां करणयोगादभिनय स्थितिम् । असंदिग्धं मुग्धबुद्धयै कल्लिनाथोऽभ्यभाषत ॥ ५४२- ॥
इति चत्वारि करकरणकानि । (सु०) तेषां लक्षणमाह-तर्जन्यादीति । यत्र तर्जन्यादीनामङ्गुलीनां क्रमात् यदावेष्टनं भवति ; करोऽपि तलाभिमुखः सन् , आवक्षः; वक्षः पर्यन्तं च पार्श्वप्रदेशादागच्छति, तद् आवेष्टिताख्यं करणं भवति । उद्वेष्टितं लक्षयति-रत्विति । अङ्गुलीनां तलतः बाह्यप्रदेशे क्रमेण निर्गमनं, करस्यापि वक्षःस्थलात् बहिनिर्गमनं तद् उ.ष्टिताख्यं करणं भवति । व्यावर्तितं लक्षयतिआवेष्टितेति । आवेष्टितप्रक्रियया; आवृत्तिरूपप्रक्रियया, करे व्यावर्तितं कार्यम् । परिवर्तितं लक्षयति-- उठेष्टितेनेति । उद्वेष्टितेन ; उद्धतप्रक्रियया परिवर्तिताख्यं करणं बोध्यम् । किंत्वत्र कनिष्ठादिभिः अगुलीभिः रेचकं करणद्वयं कर्तव्यमिति । इति व्यावर्तितपरिवर्तिते ॥ -५३९-५४२- ॥
इति चत्वारि करकरणका नि । (क०) अथ करकर्माण्याह-धूननमिति ॥ -५४३-५४५ ॥
इति विंशतिः करकर्माणि ।
Scanned by Gitarth Ganga Research Institute