________________
संगीतरत्नाकरः व्याभुग्नं भुग्रमद्वाहि विधुतं विवृतं तथा । विनिवृत्तमिति प्राज्ञाः षडिधं वदनं जगुः ॥ ५१३ ॥ किंचिदायामिवक्त्रं च व्याभुग्नं मुखमुच्यते । निर्वेदौत्सुक्यचिन्तादौ तदुक्तं पूर्वसूरिभिः ।। ५१४ ॥
इति व्याभुमम् (१) अधोमुखं तु भुमं तल्लज्जायां प्रकृतौ यतेः।
इति भुमम् (२) लीलासूक्षिप्तमद्वाहि गर्वानादरतो गतौ ।। ५१५ ॥
इत्युद्वाहि (३) (क०) अथ वदनभेदान् लक्षयितुमाह-व्याभुग्नमित्यादि ।। ॥ ५१३-५१६ ॥
(मु०) अथ वदनभेदानाह-व्याभुमामिति । व्याभुनादीनि वदनस्य षड्भेदानि । तानि यथा-व्याभुग्नम् , भुग्नम् , उद्वाहि, विधुतम् , विवृतम् , विनिवृत्तमिति । क्रमेण तेषां लक्षणमाह-किंचिदिति । किंचित् ईषत् आयामि विस्तृतं वक्त्रं यस्मिन् ; तथाविधं मुखं व्याभुग्नम् । तच्च निवंदे, औत्सुक्ये, चिन्तायां च कार्यमिति पूर्वसूरिभिरुक्तम् ॥ ५१३, ५१४ ॥
__इति व्याभुमम् (१) (मु०) भुग्नं लक्षयति-अधोमुखमिति । अधोमुखं भुग्नम् । तच्च लजायाम् , प्रकृतौ च कार्यम ॥ ५१४- ॥
____ इति भुमम् (२) (सु०) उद्वाहि लक्षयति-लीलेति । उत्क्षिप्तमुद्वाहि । तच्च लीलायाम् , गर्वे, अनादरे गतौ च कार्यम् ॥ -५१५॥
इत्युद्वाहि (३)
Scanned by Gitarth Ganga Research Institute