SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्याय: संलगोष्ठं चलं नारीवल्गने चलसंहतम् । इति चलसंहतम् (५) कम्पितं स्फुरितं प्राहु ते शीतज्वरे तथा ।। ५११ ।। इति स्फुरितम् (६) चलितं श्लिष्टविश्लिष्ट वास्तम्भे क्षोभकोपयोः । इति चलितम् (७) रोमन्थे केवलावर्ते लोलं तिर्यग्गतागतम् ॥ ५१२॥ इति लोलम् (6) इत्यष्टविधं चिबुकम । इति चिबुकप्रकरणम् । (सु०) चलसंहतं लक्षयति-संलग्नेति । संलग्न ओष्ठो यस्मिन् ; तथाविधं चञ्चलं चलसंहतम् । तच्च नारीचुम्बने कार्यम् ॥ ५१०- ॥ इति चलसंहतम् (५) (सु०) स्फुरितं लक्षयति-कम्पितमिति । स्फुरितं कम्पितम् । तच्च भीते, शीतज्वरे च कार्यम् ॥ -५११ ॥ इति स्फुरितम् (६) (सु०) चलितं लक्षयति-चलितमिति । श्लिष्टविश्लिष्टं चलितम् । तच्च वास्तम्भे, क्षोभे कोपे च कार्यम् ॥ ५११- ।। इति चलितम् (७) (सु०) लोलं लक्षयति-रोमन्थ इति । तिर्यग्गतागतं लोलम् । तच्च रोमन्थे, केवलावर्ते च कार्यम् || -५१२ ॥ इति लोलम् (6) इत्यष्टविधं चिबुकम् । इति चिबुकप्रकरणम । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy