________________
१७२
संगीतरत्नाकरः ऋची सृकानुगा वक्रोन्नता लोलावलेहिनी । जिहेति षड्विधा तत्र प्रसृतास्ये प्रसारिता ॥ ५०३ ।। ऋज्ची श्रमे पिपासायां श्वापदानां प्रयुज्यते ।
इति ऋज्वी (१) मृकानुगा लीढसृका प्रकोपस्वादुभक्षयोः ॥ ५०४ ॥
___ इति सृकानुगा (२) व्यात्तास्यस्थोन्नताग्रा च वक्रा नृहरिरूपणे ।
इति वक्रा (३)
(क०) अथ जिह्वाभेदान् लक्षयितुमाह-ऋज्वी सूक्कानुगेत्यादि । ॥ ५०३-५०६ ॥
(सु०) जिह्वा भेदानाह-ऋज्वीति । ऋज्वी, सृक्कानुगा, वक्रा, उन्नता, लोला, लेहिनीति षड्धिा जिह्वा । क्रमेण लक्षणमाह-तत्रेति । प्रसृतास्ये; प्रसृते मुखे, प्रसारिता जिह्वा ऋज्वी। सा च श्रमे, श्वापदानां पिपासायां च प्रयोज्या ॥ ५०३, ५०३-॥
इति ऋज्वी (१) (सु०) सृक्कानुगां लक्षयति - मुक्कानुगेति । लीढसृक्त्वं सृकानुगा । सा च प्रकोपे, स्वादुभक्षणे च कार्या || -५०४ ॥
___ इति सृक्कानुगा (२) (सु०) वक्रां लक्षयति-व्यात्तास्येति । व्यावृत्ते मुखे विद्यमाना उन्नतामा च वक्रा । सा च नृहरिरूपणे कार्या ॥ १०४- ॥
इति वका (३)
Scanned by Gitarth Ganga Research Institute