________________
सप्तमो नर्तनाध्यायः
१७३
व्यात्तास्यस्थोन्नतान्वर्था जृम्भास्यान्तस्थवीक्षयोः ॥ ५०५ ॥
इत्युन्नता ( ४ )
व्यात्ते वक्त्रे चला लोला वेतालाभिनये भवेत् । इति लोला (५)
दन्तोष्ठं लिहती जिह्वा लेहिनी संमता मुनेः || ५०६ ॥ इति लेहिनी (६) इति घोढा जिह्वा ।
इति जिह्वाप्रकरणम् |
जिsोष्ठदन्तक्रियया चित्रकं लक्ष्यते ततः ।
उक्तप्रायं सुखार्थे तु वक्ष्ये लक्ष्यानुसारतः ।। ५०७ ।।
(सु०) उन्नतां लक्षयति व्यात्तास्यस्थेति । उन्नता अन्वर्था । सा च जृम्भायाम्, आस्यान्तस्थर्वीक्षणे च कार्या ॥ - ५०५ ॥
इत्युन्नता ( ४ )
(सु० ) लोलां लक्षयति - व्यात्त इति । व्यात्ते वक्त्रे चञ्चला लोला । सा च वेतालाभिनये प्रयोज्या ॥ ९०५ ॥
इति लोला (५)
(सु० ) लेहिनीं लक्षयति-- दन्तोष्ठमिति । दन्तोष्ठं लिहन्ती जिह्वा लेहिनी ॥ - ५०६ ॥
इति लेहिनी (६) इति षोढा जिह्वा । इति जिह्वाप्रकरणम् |
(क) अथ चिबुकभेदान् लक्षयितुमाह - जिहोष्टदन्तक्रिययेति ॥ ॥ ५०७ - ५१२ ॥
Scanned by Gitarth Ganga Research Institute