________________
सप्तमो नर्तनाध्यायः
तृणस्य चाङ्गुलैर्दन्तधारणं ग्रहणं भये । इति ग्रहणम् (५)
किंचिच्छ्लेषः समं तच्च स्वभावाभिनये मतम् ।। ५०१ ।।
इति समम् (६)
अधरे दंशनं दन्तैर्दष्टं क्रोधेऽभिधीयते ।
इति दष्टम् (७)
निष्कर्षणं तु निष्कासः कार्य मर्कटरोदने ।। ५०२ ॥
इति निष्कर्षणम् (८) इत्यष्टौ दन्तकर्माणि | इति दन्तकर्मप्रकरणम् |
१७१
(सु० ) ग्रहणं लक्षयति - तृणस्येति । तृणस्य अङ्गुलैव दन्तधारणं ग्रहणं भवति । तच्च भये प्रयोज्यम् ॥ ९०० ॥
इति ग्रहणम् (५)
(सु० ) समं लक्षयति - किंचिदिति । किंचिदेव दन्तपङ्क्त्योः संश्लेषः समम् । तच्च स्वभावाभिनये प्रयोज्यम् ॥ ५०१ ॥
इति समम् ( ६ )
(सु० ) दष्टं लक्षयति - अधर इति । दन्तैः अधरे दंशनं दष्टम् । तच्च क्रोध कार्यम् ॥ १०१ ॥
(सु०) निष्कर्षणं भवति । तच्च मर्कटरोदने
इति दष्टम् (७)
लक्षयति--- निष्कर्षणमिति । निष्कासो निष्कर्षणं प्रयोज्यम् ॥ १०२ ॥
इति निष्कर्षणम् (८) इत्यष्टौ दन्तकर्माणि | इति कर्मप्रकरणम् |
Scanned by Gitarth Ganga Research Institute