________________
१००
संगीतरनाकरः खण्डनं तु मुहुर्दन्तश्लेषविश्लेषणं मतम् ॥ ४९८ ।। जपाध्ययनसंलापभक्षणेषु भवेदिदम् ।
इति खण्डनम् (२) छिन्नं स्यादाढसंश्लेषो रोदने भीतिशीतयोः ॥ ४९९ ।। व्याधौ च वीटिकाच्छेदव्यायामादिषु कीर्तितम् ।
इति च्छिन्नम् (३) दन्तपङ्क्त्योः स्थितिर्दूरे चुक्तिं जृम्भणादिषु ॥ ५०० ॥
इति चुक्कितम् (४)
मित्यष्टौ दन्तकर्माणि । तेषां लक्षणमाह-संघर्षण मिति । सम्यक् घर्षणं कुट्टनं भवति । तत् शीते, रुजि, भीते, जरासु च योज्यम् ॥ -४९६, ४९७- ।।
इति कुट्टनम् (१) (मु०) खण्डनं लक्षयति-खण्डनं त्विति । मुहुः दन्तश्लेषविश्लेषणं खण्डनम् । तच्च जपे, अध्ययने, संलापे, भक्षणे च प्रयोज्यम् ||-४९८, ४९८-॥
___ इति खण्डनम् (२) __(सु०) छिन्नं लक्षयति-छिन्नमिति । दन्तानां गाढसंश्लेषः छिन्नम् । तच्च रोदने, भीती, शीते, व्याधौ, वीटिकाच्छेदने, व्यायामे च कार्यम् ॥ ॥ -४९९, ४९९- ॥
इति च्छिन्नम् (३) (सु०) चुक्कितं लक्षयति-दन्तेति । दूरे दन्तपङ्क्तयोः स्थिति: चुक्कितम । तच्च जृम्भणादिषु कार्यम् ॥ -५०० ॥
इति चुक्कितम् (४)
Scanned by Gitarth Ganga Research Institute