________________
सप्तमो नर्तनाध्यायः स सार्धमुत्तरोष्ठेन ततः स्यादायतः स्मिते ॥ ४९५ ।।
इत्यायत: (९) पर्यन्तवलनादुक्तो विलासे रेचितोऽधरः ।
इति रेचितः (१०) इति दुशविधोऽधरः ।
इत्यधरप्रकरणम्। दन्तकर्माणि वक्ष्यामो दन्तलक्षणसिद्धये ॥ ४९६ ॥ कुट्टनं खण्डनं छिन्नं चुकितं ग्रहणं समम् । दष्टं निष्कर्षणं चेति दन्तकर्माष्टकं जगुः ।। ४९७ ॥ संघर्षणं कुट्टनं स्याच्छीतरूभीजरासु तत् ।
___इति कुट्टनम् (9) (सु०) आयतं लक्षयति-स इति । उत्तरोष्ठेन साकं तत आयतः । स च विस्मये कार्यः ॥ -४९५ ॥
इत्यायत: (९) (सु०) रेचितं लक्षयति-पर्यन्तेति । पर्यन्तवलितोऽधरो रेचितः । स च विलासे कार्यः ॥ ४९५- ॥
इति रेचितः (१०) इति दशविधोऽधरः।
इत्यधरप्रकरणम् । (क०) दन्तकर्माणि लक्षयितुमाह-दन्तकर्माणि वक्ष्याम इत्यादि ॥ -४९६-५०२ ॥
(सु०) प्रतिज्ञाप्रयोजनपूर्वकं दन्तकर्माणि कथयति-दन्तकर्माणीति । कुट्टनम् , खण्डनम्, छिन्नम्, चुक्कितम् , ग्रहणम् , समम् , दष्टम् , निष्कर्षण
22
Scanned by Gitarth Ganga Research Institute