________________
१६८
संगीतरत्नाकरः संदष्टकोऽधरो दन्तैर्दष्टः क्रोधे विधीयते ।
___ इति संदष्टक: (५) समुद्स्तु भवेदोष्ठसंपुटो दधदुन्नतिम् ॥ ४९३ ।। स्यात्फूत्कारेऽनुकम्पायां चुम्बने चाभिनन्दने ।
इति समुद्गः (६) आस्योत्क्षिप्ततयोवृत्तः सोऽवज्ञापरिहासयोः ॥ ४९४ ॥
इत्युद्वृतः (७) ईषदृश्योर्ध्वदशनो विकासी स स्मिते स्मृतः ।
इति विकासी (८) ___ (सु०) संदष्टकं लक्षयति-संदष्टक इति । दन्तैर्दष्टोऽधरः संदष्टकः । स च क्रोधे कार्यः ॥ ४९२- ॥
इति संदकः (५) (सु०) समुद्नं लक्षयति-समुद्गस्त्विति । ओष्टसंपुट उन्नतिं दधत् समुद्गो भवति । स च फूत्कारे, अनुकम्पायाम् , चुम्बने, अभिनन्दने च प्रयोज्य: ।। -४९३, ४९३- ॥
इति समुद्गः (६) (सु०) उद्वृत्तं लक्षयति-आस्येति । आस्येन उत्क्षिप्त उच्चीकृत उद्वृत्तो भवति । स च अवज्ञापरिहासयो: प्रयोज्यः ॥ -४९४ ॥
__ इत्युद्वत्तः (५) (मु०) विकासिनं लक्षयति-ईवदिति । ईषद् दृश्यः ; किंचिद्विलोकनीयः, ऊर्ध्वदशनो यस्मिन् स विकासी । स च स्मिते कार्यः ॥ ४९४-॥
इति विकासी (6)
Scanned by Gitarth Ganga Research Institute