________________
सप्तमो नर्तनाध्यायः
१६७
व्यथायां कम्पितोऽन्वर्थो भीतौ शीते जपे रुजि ॥ ४९० ॥ इति कम्पितः (२)
विसृष्टः स्याद्विनिष्क्रान्तो रञ्जनेऽलक्तकादिना । स्त्रीणां विलासे विश्व शार्ङ्गिदेवेन कीर्तितः ।। ४९१ ॥ इति विसृष्टः (३)
मुखान्तर्निहितः प्राणसाध्येऽर्थे विनिगूहितः । रोषेर्ष्ययोश्च नारीणां बलाच्चुम्वति वल्लभे ।। ४९२ ॥ इति विनिगूहित: (४)
भेदा दश । तेषां क्रमेण लक्षणमाह-ओष्ठयोरिति । संकोचेनोपलक्षितः संपुटः, तिर्यक्कृत ओष्ठौ विवर्तितः । तस्य अवज्ञायाम्, वेदनायाम् असूयायाम्, हास्ये च विनियोगः ॥ ४८८-४८९- ॥
इति विवर्तित : (१)
(सु० ) कम्पितं लक्षयति - व्यथायामिति । अन्वर्थनामा कम्पितः । स तु भीतौ, शीते, जपे च प्रयोज्यः ॥ - ४९० ॥
इति कम्पित: ( २ )
(सु० ) विसृष्टं लक्षयति - विसृष्ट इति । बहिर्निष्क्रान्तो वातो विसृष्टः । स तु अलक्तकादिना रञ्जने, स्त्रीणां विलासे, बिब्बोके च प्रयोज्यः || ४९१ ।। इति विसृष्टः (३)
(सु० ) विनिगूहितं लक्षयति - मुखान्तरिति । मुखा न्तर्निहितः ; मुखमध्ये क्षिप्तो वातो विनिगूहितः । स च प्राणसाध्येऽर्थे; कोपे, ईर्ष्यायाम्, नायकस्य बलात्कारचुम्बने च प्रयोज्यः ॥ ४९२ ॥
इति विनिगूहितः (४)
Scanned by Gitarth Ganga Research Institute