________________
१६६
संगीतरत्नाकरः सूत्कृतं वेदनादौ स्याच्छीते क्लेशे तु सीत्कृतम् ॥ ४८६ ॥ नखक्षते मृगाक्षीणां निर्दयाधरचर्वणे । विनियोगान्तराण्यत्र बुध्यतां लोकतो बुधाः ॥ ४९७ ॥
इति मतान्तरेण दशधा श्वसनः ।
इत्यानिलप्रकरणम् । विवर्तितः कम्पितश्च विसृष्टो विनिग्रहितः । संदष्टकः समुद्रश्चेत्यधरः षड्विधो मतः ॥ ४८८ ॥ अन्येऽन्यानूचुरुवृत्तविकास्यायतरेचितान् । ओष्ठयोः संपुटस्तिर्यक्संकोचेन विवर्तितः॥ ४८९ ॥ अवज्ञावेदनासूयाहास्यादिषु विधीयते ।
इति विवर्तितः (१) सुरते । स्तम्भितः शास्त्रमोक्षादौ । उच्छासः कुसुमाघ्राणे | निःश्वास अनुशयादौ । सूत्कृतं वेदनादौ । सीत्कृतं शीते, क्लेशे च प्रगोज्यम् । मृगाक्षीणां सुभ्रुवां निर्दयाधरचर्वणे च विनियोगान्तराण्यपि बुधाः लोकतोऽवगन्तव्याः ॥ ४८३-८४७ ॥
इति मतान्तरेण दशधा श्वसनः ।
___ इत्यनिलप्रकरणम। (क०) अथाधरभेदान् लक्षयितुमाह-विवर्तितः कम्पितश्चेत्यादि ॥ ४८८-४९५. ॥
(सु०) अधरभेदानाह-विवर्तित इति । विवर्तितः, कम्पितः, विसृष्टः, विनिगूहितः, संदष्टकः, समुद्ग इत्यधरः षड्विधः । मतान्तरेण चतुर्विधमधरं लक्षयति - अन्य इति । अन्ये, आचार्याः, उद्वृत्तादिभेदेन अधरस्य चतुरो भेदानाहुः । उद्वत्तः, विकासी, आयतः, रेचित इति । आहत्याधरस्य
Scanned by Gitarth Ganga Research Institute