________________
सप्तमो नर्तनाध्यायः
१६५
प्रसृतो दीर्घः सशब्दो निर्गतो मुखात् ॥ ४८२ ॥ इति प्रसृतः ( ९ ) इति नवविधोऽनिलः ।
समोsस्वस्थपर्यायो भ्रान्तोऽन्तभ्रमणान्मरुत् । अन्ये त्वन्वर्थनामानस्तत्र सूत्कृतसीत्कृते ।। ४८३ | शब्दानुकरणे वक्त्रत्याज्यग्राह्येऽनिले क्रमात् । समः स्वाभाविको भ्रान्तः प्रथमे प्रियसङ्गमे ॥ ४८४ ॥ विलीनो मूर्छिते शैलारोहे त्वान्दोलितो मतः । कम्पितः सुरते शस्त्रमोक्षादौ स्तम्भितो भवेत् ।। ४८५ ॥ उच्छ्वासः कुसुमाघ्राणे निःश्वासोऽनुशयादिषु ।
पवनः स्खलित: । सः ; स्खलितः, दशाम्यां दशायाम्, व्याधौ, प्रस्खलितेषु च प्रयोज्यः ॥ - ४८१, ४८१- ॥
इति स्खलित: (८)
( सु० ) प्रसृतं लक्षयति - प्रसुप्त इति । सशब्दं यथा तथा मुखात् विनिर्गतः दीर्घो वातः प्रसृतः । स च निद्राणे प्रयोज्यः ॥ - ४८२ ॥
इति प्रसृत: ( ९ ) इति नवविधोऽनिलः ।
(सु०) मतान्तरेण दशविधं पवनं लक्षयति - सम इति । स्वस्थपर्यायः, अविकृतो मरुत सम: (१) अन्तभ्रंमितो मरुत् भ्रान्त: (२) अन्ये तु अन्वर्थनामान:; नानैवोक्तलक्षणा इत्यर्थः । तेषां विनियोगमाह - तत्रेति । सूत्कृत - सीत्कृते शब्दानुकरणे बोध्ये । क्रमात् मुखात्त्याज्ये वातः सूत्कृतम, मुखे ग्राह्येो वातः सीत्कृतमिति । समः स्वाभाविके प्रयोज्यः । भ्रान्तः प्रथमे प्रियसङ्गमे कार्यः । विलीनो मूर्च्छायाम् । आन्दोलित : शौलारोहे | कम्पितः
Scanned by Gitarth Ganga Research Institute