________________
१६४
संगीतरत्नाकर:
चिरान्मन्दं निपीतस्तु घ्राणेनोल्लासितो मरुत् ।। ४७८ ॥ गन्धे विधातव्यः संदिग्धे च विचक्षणैः ।
इत्युला सित: ( ५ )
संयम्य सुचिरं मुक्तो विमुक्तः कथ्यतेऽनिलः || ४७९ ॥ योगे ध्याने च स प्रोक्तः प्राणायामे च सूरिभिः । इति विमुक्त: ( ६ ) चित्तस्यान्यपरत्वेन यः प्रयत्नेन वर्तते ।। ४८० ॥ सविस्मितो विस्मये स्यादद्भुते चार्थचिन्तने ।
इति विस्मित: (७)
महत्त्वादुःखनिष्क्रान्तः कथितः स्खलितोऽनिलः ॥ ४८१ ॥ स्यादशम्यां दशायां स व्याधौ प्रस्खलितेषु च । इति स्खलितः (८)
(सु०) उल्लासितं लक्षयति - चिरादिति । चिरात् चिरकालं मन्दं शनैः शनैः घ्राणेन निपीतो मरुत् वात उल्लासितो भवति । स च हृद्ये गन्धे ; संदिग्धे च कार्यः ॥ - ४७८, ४७८- ॥
इत्यलासितः (५)
(सु० ) विमुक्तं लक्षयति - संयम्येति । सुचिरम् चिरकालम्, संयम्य मुक्त वातो विमुक्तः । स च योगे, ध्याने, प्राणायामे च कार्यः ॥ ४७९, ४७९ ॥ इति विमुक्तः (६)
(सु० ) विस्मितं लक्षयति-चित्तस्येति । चित्तस्य अन्यपरत्वेन अन्यासक्तेन यो वायुः प्रयत्नेन वर्तते स विस्मितः । स च विस्मये, अद्भुते, प्रर्थचिन्तने च कार्यः ॥ ४८०, ४८०- ॥
इति विस्मित: (७)
(सु० ) स्खलितं लक्षयति-महत्वादिति । महत्वात् दुःखेन निःसृतः
Scanned by Gitarth Ganga Research Institute