________________
सप्तमो नर्तनाध्यायः
१६३ उष्णौ दीघौं सशब्दौ च तौ मुखेन कृतौ चलौ ॥ ४७५ ॥ कार्यावौत्सुक्यनिर्वेदशोकचिन्तास्विमौ मतौ ।
___ इति चलौ (२) प्रवृद्धः सन्सशब्देन वदनेन विनिर्गतः ॥ ४७६ ॥ निःश्वासः स्यात्मवृद्धाख्यः क्षयव्याध्यादिगोचरः।
इति प्रवृद्धः (३) सशब्दः सन्सकृत्क्षिप्तो निरस्तः कथ्यते मरुत ॥ ४७७ ॥ दुःखान्विते सरोगे च श्रान्ते चैंष विधीयते ।
___ इति निरस्त: (४)
(सु०) चलौ लक्षयति-उष्णाविति । उष्णौ सशब्दौ शब्दसहितौ, दीपों च मुखेन कृतौ वातौ चलौ। तौ औत्सुक्यनिर्वेदशोकचिन्तासु प्रयोज्यौ ॥ -४७५, ४७५- ॥
___ इति चलौ (२) __ (सु०) प्रवृद्धं लक्षयति-प्रवृद्ध इति । सशब्देन वदनेन प्रवृद्धः सन् विनिर्गतो निश्वास: प्रवृद्धः स्यात् । अयं पूर्वयोर्द्वयोरपि भिन्नः । तत्र मिलितयोः उच्छासनिः श्वासयोस्तथाविधसंज्ञित्वात् द्विवचनमुक्तम् । अत्र तु एकैकस्यापि संज्ञासंभवात् द्विवचनानादरः। तस्य विनियोगस्तु-क्षयत्र्याध्यादौ कार्यः ॥ -४७६, ४७६- ॥
इति प्रवृद्धः (३) (सु०) निरस्तं लक्षयति-सशब्द इति । सशब्दः सन् शब्दसहितः सन्, सकृत् एकवारं क्षिप्ते मरुत् वातो निरस्त इति कथ्यते । स च दुःखान्विते, सरोगे, श्रान्ते च प्रयोज्यः ॥ -४७७, ४७७- ॥
इति निरस्त: (४)
Scanned by Gitarth Ganga Research Institute