SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १६२ संगीतरत्नाकरः स्वस्थौ चलौ प्रवृद्धश्च निरस्तोल्लासितावपि ॥ ४७१ ॥ विमुक्तो विस्मितः श्वासः स्खलितः प्रसृतस्तथा । एवमुच्छ्वासनिःश्वासौ नवधा कोहलोदितौ ॥ ४७२ ॥ समो भ्रान्तो विलीनश्चान्दोलितः कम्पितोऽपरः । स्तम्भितोच्छ्वासनिःश्वाससूत्कृतानि च सीत्कृतम् ।। ४७३ ॥ एवं दशविधः प्रोक्तो लक्ष्यज्ञैर्मारुतोऽपरैः । स्वस्थावुच्छासनिःश्वाससंज्ञौ वायू स्वभावजौ ॥ ४७४ ।। स्वस्थक्रियासु कर्तव्यावुक्तौ निःशङ्करिणा । ____ इति स्वस्थौ (१) सोच्छवासा। सा च सौरभे, निर्वेदादिपु भावेषु दीर्घोच्छासकरेषु च प्रयोज्या ॥ -४७०, ४७०- ॥ __ इति सोच्छासा (6) इति षोढा नासिका। इति नासाप्रकरणम् । (क०) अथ नासास्यभवाननिलभेदान् लक्षयितुमाह-स्वस्थौ चलावित्यादि ॥ -४७१-४८२ ॥ (सु०) अथ सोछ्वासनिश्वासयोर्भेदानाह-स्वस्थाविति । उच्छासादिभेदेन नवविधो नासास्यभवोऽननिलः । तानाह-स्वस्थौ, चलौ, प्रवृद्धः, निरस्तः, उल्लासित:, विमुक्तः, विस्मितः, स्खलित इति । कोहलमतेन दशविधः । तानाह-समः, भ्रान्तः, विलीनः, आन्दोलितः, कम्पितः, स्तम्भित: उछासः, निःश्वासः, सूत्कृतम् , सीत्कृतमिति । तेषां क्रमेण लक्षणमाह-स्वस्थाविति । उछासनिः श्वाससंज्ञौ वायू स्वभावजौ स्वस्थावित्युच्युते । तौ स्वस्थक्रियायां प्रयोज्यौ ॥ -४७१-४७४- ॥ इति स्वस्थौ (१) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy