________________
सप्तमो नर्तनाध्यायः
१५९ कुञ्चितौ कम्पितौ पूर्णौ क्षामौ फुल्लौ समौ तथा ॥ ४६१ ॥ कपोलौ षड्विधावुक्तौ तल्लक्षणमथोच्यते । संकोचात्कुश्चितौ रोमाञ्चितौ शीतज्वरे भये ।। ४६२ ॥
इति कुञ्चितौ (१) स्फुरितौ कम्पितौ कायौं रोमहर्षेषु सूरिभिः ।
___ इति कम्पिती (२) कपोलावुन्नतौ पूर्णौ तौ गर्वोत्साहगोचरे ॥ ४६३ ॥
इति पूणॆ (३) क्षामौ त्ववनतौ ज्ञेयौ दुःखे कार्याविमौ नटैः ।
इति क्षामौ (४) गण्डौ विकसितौ फुल्लौ प्रहर्षे परिकीर्तितौ ॥ ४६४ ॥
इति फुल्लौ (५) समौ स्वाभाविको भावेष्वनावेशेषु तौ मतौ ।
इति समौ (६)
इति षोढा कपोललक्षणम् । (क०) अथ कपोलयो/दान् लक्षयितुमाह- कुश्चितौ कम्पितौ पूर्णावित्यादि ॥ ४६१-४६४- ॥
(सु०) अथ कपोलयोर्भेदानाह-कुञ्चिताविति । कुञ्चितौ, कम्पितौ, पूर्णी, क्षामौ, फुल्लौ, समाविति षड्विधौ कपोलौ । क्रमेण लक्षणमाहसंकोचेति । संकोचात् कुञ्चितौ । तौ रोमाञ्चितौ शीते, ज्वरे भये च कार्यों । इति कुञ्चितौ (१) स्फुरणात् कम्पितौ । तौ रोमहर्षेषु कार्यों । इति कम्पितौ (२) उन्नतौ पूर्णौ । तौ गर्वोत्साहयो: कार्यों । इति पूर्णी (३) अवनतौ क्षामौ ।
Scanned by Gitarth Ganga Research Institute