________________
१५८
संगीतरत्नाकरः
पृष्ठतो दर्शनं यत्तद्विलोकितमुदाहृतम् ।
___ इति विलोकितम् (५) उल्लोकितं तदूर्ध्वस्थवस्तुनो यदवेक्षणम् ॥ ४५९ ॥
इत्युल्लोकितम् (६) सहसा दर्शनं यत्तदालोकितमुदीरितम् ।
इत्यालोकितम् (७) पार्श्वस्थदर्शनं मोक्तं कृतिभिः प्रविलोकितम् ।। ४६० ॥
इति प्रविलोकितम् (८) साधारणान्यमून्याहू रसभावेषु तद्विदः।
___ इत्यष्टौ दर्शनानि ।
इत्यष्टौ विषयनिष्ठानि ताराकर्माणि (सु०) विलोकितं लक्षयति-पृष्ठत इति । पृष्ठतो दर्शनं विलोकितमित्युच्यते ॥ ४५८- ॥
इति विलोकितम् (५) (सु०) उल्लोकितं लक्षयति-उल्लोकितमिति । ऊर्ध्वस्थवस्तुनो यदवलोकनं तद् उल्लोकितं भवति ॥ -४५९ ॥
इत्युल्लोकितम् (६) (सु०) आलोकितं लक्षयति-सहसेति । यत् सहसादर्शनम् तद् आलोकितं भवति ॥ ४५९-॥
इत्यालोकितम् (७) (सु०) प्रविलोकितं लक्षयति-पार्श्वस्थेति । पार्श्वस्थदर्शनं प्रविलोकितमिति कृतिभिः प्रोक्तम् । एतानि दर्शनानि रसभावेषु साधारणानी त्याहुः ॥ -४६०, ४६०.॥
___इति प्रविलोकितम् (८)
इत्यष्टौ दर्शनानि । इत्यष्टौ विषयनिष्ठानि ताराकर्माणि |
इति तारकाप्रकरणम् ।
Scanned by Gitarth Ganga Research Institute