________________
१५७
सप्तमो नर्तनाध्यायः एतानि दर्शनान्याहुर्लक्ष्यलक्ष्मविचक्षणाः । सौम्यं मध्यस्थतारं च दर्शनं सममुच्यते ॥ ४५६ ॥
इति समम् (१) साच्युच्यते तिरश्चीनपक्ष्मान्तर्गततारकम् ।
___इति साचि (२) रूपनिर्वर्णनायुक्तमनुवृत्तं मतं मुनेः ॥ ४५७ ।। निर्वर्णना क्रियाकादिद्दक्षातश्विरस्थिरा ।
इत्यनुवृतम् (३) अधस्थदर्शनं यत्तदवलोकितमुच्यते ॥ ४५८ ॥
इत्सवलोकितम् (४) (सु०) विषयाभिमुखान्यष्टविधानि । तानि यथा-समम् , साचि, अनुवृत्तम् , अवलोकितम् , उल्लोकितम् , आलोकितम् , प्रविलोकितम् , विलोकितमित्येतान्यष्टौ दर्शनानीत्युच्यन्ते । तेषां क्रमेण लक्षणमाह-सौम्यमिति । सौम्यम् ; अक्रूरम् , मध्यस्थतारदर्शनं सममित्युच्यते ॥ -४५४, ४५५ ॥
इति समम् (१) (सु०) साचि लक्षयति–साचीति । तिरश्चीनं पक्ष्मान्तर्गततारक कनीनिक साचीत्युच्यते ॥ ४५६-॥
इति साचि (२) (सु०) अनुवृत्तं लक्षयति-रूपमिति । रूपनिर्वर्णनायुक्तम् ; रूपस्य निर्वर्णनया युक्तमवलोकनम् अनुवृत्तम् । केयं निवर्णनेत्यपेक्षायामाह-निवर्णनेति । कात्स्न्य॑दिदृक्षया; कात्स्न्येन साकल्येन दिदृक्षाहेतो: चिरकालं, स्थिरा क्रिया निवर्णनेत्युच्यते ॥ -४५७, ४५७- ॥
___इत्यनुवृत्तम् (३) (सु०) अवलोकितं लक्षयति-अधःस्थेति । अधःस्थस्य दर्शनमवलोकिसम् ॥ -४५८ ॥
इत्यवलोकितम् (४)
Scanned by Gitarth Ganga Research Institute